१७४ पा. ४ सू. २२ ] पातम्जलयोगसूत्रम् सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥ स्यान्मतिः, स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति - चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥ अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साप्यन्यया साप्यन्ययेत्यतिप्रसङ्गः । स्मृतिसंकरच, यावन्तो बुद्धिबुद्धीनामनुभवास्ता- वत्यः स्मृतयः प्राप्नुवन्ति । तत्संकराञ्चैकस्मृत्यनवधारणं च स्यादिति । एवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाकुलीकृतम् । ते तु भोक्तृ- स्वरूपं यत्र वचन कल्पयन्तो न न्यायेन संगच्छन्ते । केचित्तु सत्त्वमात्र- मपि परिकल्प्यास्ति स सत्त्वो य एतान्पन्न स्कन्धान्निक्षिप्यान्यांश्च प्रतिसंद- धातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति । तथा स्कन्धानां महानिर्वेदाय विरागाया- नुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्य चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्रुवते। सांख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ।। २१ ।। कथम्- चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धि- संवेदनम् ॥ २२ ॥ इति । तस्माद् दृश्यत्वमेतच्चित्तस्य सदातनं स्वाभासत्वमपनयद् द्रष्टारं च द्रष्टुर- परिणामित्वं च दर्शयतीति सिद्धम् ॥ २० ॥ पुनर्वैनाशिकमुत्थापयति- स्यान्मतिः । मा भूद् दृश्यत्वेन स्वसंवेदनम् । एवमप्यात्मा न सिध्यति । स्वसंतानवर्तिना चरमचित्तक्षणेन स्वरसनिरुद्धस्त्रजन- कचित्तक्षणग्रहणादित्यर्थः । समं च तज्ज्ञानत्वेन, अनन्तरं चाव्यवहितत्वेन, सम- नन्तरं तेन । चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसंगः स्मृतिसंकरश्च । बुद्धिरिति चित्तमित्यर्थः । नागृहीता चरमा बुद्धिः पूर्वबुद्धिग्रहणसमर्था । न हि बुद्धया- ऽसंबद्धा पूर्वबुद्धिर्बुद्धा भवितुमर्हति । न ह्यगृहीतदण्डो दण्डिनमवगन्तुमर्हति । तस्मादनवस्थेति । विज्ञानवेदनासंज्ञारूपसंस्काराः स्कन्धाः । सांख्ययोगा- दयः प्रवादाः । सांख्याश्च योगाश्च त एवादयो येषां वैशेषिकादिप्रवादानां ते सांख्ययोगादयः प्रवादाः । सुगममन्यत् ॥ २१ ॥ स्यादेतत् – यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यमात्मनापि कथं भोक्ष्यते चित्तम् । न खल्वात्मनः स्वयंप्रकाशस्याप्यस्ति काचित्क्रिया । न च तामन्तरेण कर्ता न चासंबद्धश्चित्तेन कर्मणा तस्य भोक्तातिप्रसङ्गादित्याशयवान्- पृच्छति — कथमिति । सूत्रेणोत्तरमाह– चितेरप्रतिसंक्रमायास्तदाकारापत्तौ
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८१
दिखावट