पातञ्जलयोगसूत्रम् १७२ पा. ४ सू. १९ ] सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥ यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत ततस्तद्विषयाश्चित्तवृत्तयः शब्दादि- विषयवज्ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणा- मित्वमनुमापयति ।। १८ ।। स्यादाशङ्का चित्तमेव स्वाभासं विषयाभासं च भविष्यत्यग्निवत्- न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥ यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम् । - तु तदेव चित्तं विषयस्तस्य - सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरि- णामित्वात् । क्षिप्तमूढविक्षिप्तैकाग्रतावस्थितं चित्तमा निरोधात्सर्वदा पुरुषेणानु- भूयते वृत्तिमत् । तत्कस्य हेतोः ? यतः पुरुषोऽपरिणामी । परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञातविषयो भवेत् । ज्ञातविषय एव त्वयम् । तस्मादपरिणामी । ततश्च परिणामिभ्योऽतिरिच्यत इति । तदेतदाह — यदि चित्तवदिति । सदा ज्ञातत्वं तु मनसः सवृत्तिकस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् । तस्य प्रभोः पुरुषस्यापरिणामित्वमनुमापयति । तथा चापरिणामिनस्तस्य पुरुषस्य परिणामिनश्चित्ताद्भेद इति भावः ॥ १८ ॥ अत्र वैनाशिकमुत्थापयति—स्यादाशङ्केति । अयमर्थः– स्यादेतदेवं यदि चित्तमात्मनो विषयः स्यात् । अपि तु स्वप्रकाशमेतद्विषयाभासं पूर्वचित्तं प्रतीत्य समुत्पन्नम् । तत्कुतः पुरुषस्य सदाज्ञातविषयत्वम् ? कुतस्तरां वाऽपरिणामितया परिणामिनश्चित्ताद्भेद इति ? न तत्स्वाभासं दृश्यत्वात् । भवेदेतदेवं यदि स्वसंवेदनं चित्तं स्यात् । न त्वेतदस्ति । तद्धि परिणामितया नीलादिवदनु- भवव्याप्यम् । यच्चानुभवव्याप्यं न तत्स्वाभासं भवितुमर्हति । स्वात्मनि वृत्तिविरोधात् । न हि तदेव क्रिया च कर्मं च कारकं च । न हि पाकः पच्यते, छिदा वा छिद्यते । पुरुषस्त्वपरिणामी नानुभवकर्मेति नास्मिन्स्वयंप्रकाशता न युज्यते । अपराधीनप्रकाशतो ह्यस्य स्वयम्प्रकाशता, नानुभवकर्मतः । तस्माद् दृश्यत्वाद्दर्शनकर्म चित्तं न स्वाभासम् । आत्मप्रकाशप्रतिबिम्बतयैव चित्तस्य तद्वृत्तिविषयाः प्रकाशन्त इति भावः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७९
दिखावट