सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६९ वाचस्पपिकृतटीकायु तव्यासभाष्यसमेतम् [पा. ४ सू. १५ कुतश्चैतदन्याय्यम् ?- वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः ॥ १५ ॥ बहुचित्तालम्बनीभूतमेकं वस्तु साधारणम् । तत्खलु नैकचित्त परिकल्पितं नाप्यनेकचित्तपरिकल्पितम् किं तु स्वप्रतिष्ठम् । कथम् ? वस्तुसाम्ये चित्त- भेदात् । धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवत्यधर्मापेक्षं तत एव दुःखज्ञानमविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चित्तेन परिकल्पितम् ? न चान्यचित्तपरिकल्पि- तेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयो- विभक्तः पन्थाः । नानयोः संकरगन्धोऽप्यस्तीति । सांख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं पक्षत्वम् । सहोपलम्भनियमश्च सदसतोरिव विज्ञानस्थौल्ययोः सतोरपि स्वभा वाद्वा कुतश्चित्प्रतिबन्धाद्वोपपत्स्यते, तस्मादनैकान्तिकत्वादेतौ हेत्वाभासौ विकल्पमात्रमेव बाह्याभावे प्रसुवाते । न च प्रत्यक्षमाहात्म्यं विकल्पमात्रेणा- पोद्यते । तस्मात्साधूक्तं कथमप्रमाणात्मकेन विकल्पज्ञानबलेनेति । एतेन प्रत्यय- त्वमपि स्वप्नादिप्रत्ययदृष्टान्तेन निरालम्बनत्वसाधनमपास्तम् । प्रमेयविकल्पस्त्व- वयविव्यवस्थापनेन प्रयुक्तः । विस्तरस्तु न्यायकणिकायामनुसरणीय इति तदिह कृतं विस्तरेणेति ॥ १४ ॥ तदेवमुत्सूत्रं भाष्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वा सौत्रीं युक्तिमवतार- यति — कुतश्चैतदिति । वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः । यन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते । यथा चैत्रस्य ज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णु मित्र मैत्र प्रत्ययेभ्यो भिद्यते । ज्ञाननानात्वेऽपि चार्थो न भिद्यत इति भवति विज्ञानेभ्योऽन्यः। अभेदश्चार्थस्य ज्ञानभेदेऽपि प्रमातॄणां परस्परप्रतिसंधाना- दवसीयते । अस्ति हि रक्तद्विष्टविमूढमध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसंधानं या त्वया दृश्यते सैव मयापीति । तस्माद्वस्तुसाम्ये चित्तभेदाज्ज्ञान- भेदात्तयोरथंज्ञानयोर्विभक्तः पन्थाः स्वरूपभेदोपायः । सुखज्ञानं कान्तायां कान्त- स्य, सपत्नीनां दुःखज्ञानम्।चैत्रस्य तु तामविन्दतो मूढज्ञानं विषादः । स्यादेतत्- य एकस्य चित्तेन परिकल्पितः कामिनीलक्षणोऽर्थस्तेनैवान्येषामपि चित्तमुपरज्यत इति साधारणमुपपद्यत आह - न चान्येति । तथा सत्येकस्मिन्नीलज्ञानवति सर्व एव नीलज्ञानवन्तः स्युरिति । नन्वर्थवादिनामप्येकोऽर्थः कथं सुखादिभेद भिन्नविज्ञानहेतुः । न ह्यविलक्ष- णात्कारणात्कार्यभेदो युक्त. इत्यत आह - सांख्यपक्ष इति । एकस्यैव C SURIN