पा. सू. ५० ] पावअयोगसूत्रम् १४८ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥ निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकार- संज्ञायां वर्तमानस्य सत्पुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठा- तृत्वम् । सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्य- शेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तो- दिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थ इति । एषा विशोका नाम सिद्धियां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो बशी विहरति ।। ४९ ॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥ यदास्यैव भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः, सवं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति । एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसम- र्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते । तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणा- भिव्यक्तानां चरितार्थानामप्रतिप्रसवे पुरुषस्यात्यन्तिको गुणवियोगः हारसंपादितश्रद्धाद्वारेण यदर्थास्तस्याः सत्त्वपुरुषान्यताख्यातेरवान्तरविभूती सर्वभावाधिष्ठातृत्वं सर्वज्ञा- , दर्शयति — सत्त्वपुरुषान्यताख्यातिमात्रस्य तृत्वं च । निर्धूतरजस्त मोमलतया वैशारद्यम् । ततः परा वशीकारसंज्ञा । रजस्तमोभ्यामुपप्लुतं हि चित्तसत्त्वमवश्यमासीत् तदुपशमे तु तद्वश्यं योगिनो वशिनः। तस्मिन्वश्ये योगिनः सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावा- धिष्ठातृत्वम् । एतदेव विवृणोति - सर्वात्मान इति । व्यवसायव्यवसेयात्मानो जडप्रकाशरूपा इत्यर्थः । तदनेन क्रियैश्वर्यमुक्तम् । ज्ञानैश्वर्यमाह सर्वज्ञातृ- त्वमिति । अस्या अपि द्विविधायाः सिद्धेर्वैराग्याय योगिजनप्रसिद्धां संशामाह- पषा विशोकेति । क्लेशाश्च बन्धनानि च कर्माणि । तानि क्षीणानि यस्य स तथा ॥ ४ ॥ संयमान्तराणां पुरुषार्थाभासफलत्वाद्विवेकख्यातिसंयमस्य पुरुषार्थता दर्शयितुं विवेकख्यातेः परवैराग्योपजननद्वारेण कैवल्यं फलमाह -तद्वैराग्यादपि दोपबीजक्षये कैवल्यम् । यदास्य योगिनः क्लेशकर्मक्षयः एवं शानं भवति ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५५
दिखावट