पातञ्जलयोगसूत्रम् १४४ पा ३ सू. ४४ ] भागः। ताभ्यामेवाभिधीयते समूहः । सच भेदाभेदविवक्षितः । आम्राणां वनं ब्राह्मणानां सङ्घ, आम्रवणं ब्राह्मणसङ्घ इति । स पुनर्द्विविधो युतसिद्धावववोऽयुतसिद्धावयवञ्च । युतसिद्धावयवः समूहो- वनं सङ्घ इति । अयुतसिद्धावयवः सङ्घातः-शरीरं वृक्षः परमाणुरिति । अयुत- सिद्धावयव भेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् । अथ किमेनां सूक्ष्मरूपम् ? तन्मात्रं भूतकारणम् । तस्यैको ऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्रा- ण्येतत्तृतीयम् । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावा- नुपातिनोऽन्त्रयशब्देनोक्ताः । भिन्नावुपात्तौ । ननूभयशब्दात्तदवयवमेदो न प्रतीयते । तत्कथमुपात्तमेदावय- वानुगम इत्यत आह - ताभ्यां भागाभ्यामेव समूहोऽभिधीयते । उभय- शब्देन भागद्वयवाचिशब्दसहितेन समूहो वाच्यः । वाक्यस्य वाक्यार्थवाचक- त्वादिति भावः । पुनर्वैविध्यमाह - स चेति । मेदेन चामेदेन च विवक्षितः । मेदविवक्षि- तमाह - आम्राणां वनं ब्राह्मणानां सङ्घ इति । भेद एव षष्ठीश्रुतेः । यथा गर्गाणां गौरिति । अमेदविवक्षितमाह आम्रवणं ब्रह्मणसङ्घ इति । आम्राश्च ते वनं चेति समूहसमूहिनोरमेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः । विधान्तरमाह–स पुनर्द्विविधः । युतसिद्धावयवः समूहः । युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः, यूथं वनमिति । सान्तराला हि तदवयवा वृक्षाश्च गावश्च । अयुतसिद्धावयवश्व समूहो वृक्षो गौः परमाणुः रिति । निरन्तरा हि तदवयवाः सामान्यविशेषा वा सास्नादयो वेति । तदेतेषु समूहेषु द्रव्यभूतं समूहं निर्धारयति- अयुतसिद्धेति । तदेवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति--एतत्स्त्ररूपमित्युक्तमिति । तृतीयं रूपं विवक्षुः पृच्छति - अथेति । उत्तरमाह - तन्मात्रमिति | यस्यै- कोऽवयवः परिमाणभेदः परमाणुः, सामान्यं मूर्तिः, शब्दादयो विशेषास्तदात्मा, अयुतसिद्धा निरन्तरा येऽवयवाः सामान्यविशेषास्तद्वेदेष्वनुगतः समुदायः । यथा च परमाणुः सूक्ष्म रूपमेवं सर्वतन्मात्राणि सूक्ष्मं रूपमिति । उपसंहरति- एतदिति । अथ भूतानां चतुर्थ रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावममु- पतितुमनुगन्तुं शीलं येषां ते तथोक्ताः । अत एवान्वयशब्देनोवाः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५१
दिखावट