सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(( १२ )) वैशेषिकेऽपि सैव दृष्टिः । कणादः खलु योगाचारविभूत्या महेश्वरं तोष- यित्वा वैशेषिकशास्त्रं प्रणिनायेति प्रशस्तपाद आह ग्रन्थान्ते । योगाचारपदं एका कितादियतिधर्मं लक्ष्यतीति बोध्यम्, तेनैव विभूतीनामुत्पत्तिदर्शनात् । दुःखात्यन्तनिरोधस्तु वैशेषिकैरभ्युपगम्यते । योगिप्रत्यक्षं योगप्रामाण्यं चापि स्वीक्रियते, मोक्षविषयिणी चर्चाऽपि दृश्यतेऽत्र । आह च प्रशस्तपाद:- “अस्मद्विशिष्टानां तु योगिनां युक्तानां योगजधर्मानुग्रहसामर्थ्यात् सूक्ष्मव्यव हितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते” इति ( प्रत्यक्ष प्रकरणम्) । आर्षं दिव्यज्ञान- मपि भाष्यकार आह—‘तदिदमार्षज्ञानप्रकरणे सिद्धदर्शनप्रकरणे च प्रोकम्' । विशेषप्रकरणेऽन्यत्रापि योगजं ज्ञानमभ्युपेयते वैशेषिकाचार्यैः । अपवर्गसम्बन्धि वैशेषिक मतमपि योगानुगतम् ( संसारापवर्गप्रकरणीयं भाष्यं द्रष्टव्यम् ), यथाह- “तदा निरोधात् निर्बीजस्यात्मनः शरीरादिनिवृत्तिः पुनः शरीराद्यनुत्पत्तौ दग्धे- न्धनानलवद् उपशमो मोक्ष इति ।” यमनियमादिसत्ताऽपि स्वीकृता ( द्र० प्रशस्तपादीयं धर्मप्रकरणम्) । वैशेषिकसूत्रेषु (६।१-२ आ० ) अपि योगादि- विचार आस्ते । उत्तरमीमांसायामपि योगाभ्यास उररीकृतः-'आसीनः संभवात्', 'ध्यानाच्च' इत्यादिभिः सूत्रजालैः ( ४ | १ | ७ - ११ ) । अत्र यद् 'स्मृत्यन्तराधिकरणम्' 'योगप्रत्याख्यानाधिकरणम्' च विद्येते ( २।१।१ - ३), ते न सांख्ययोगविद्या- प्रत्याख्यानपरे । सोऽयं विषयो मया 'सांख्यविद्या' 'योगविद्या' इति ग्रन्थद्वये विवृत इत्युपरम्यते । उत्तरमीमांसासूत्रमिदं सर्वैर्भाष्यकारैराकुलीकृतमित्यव- गन्तव्यम् । इदमपि विज्ञेयं यदुत्तरमीमांसया वैदिकवाक्यार्थानां मीमांसा ( परस्परविरोधपरिहारः) क्रियते, न पुनः वैदिकप्रमेयाणां स्वरूपादिकं विशदी- क्रियते प्रमाणीक्रियते वा । वैदिकशब्दानामर्थकरणं यथा शब्दविद्याया विषयः, तथा वैदिकप्रमेयस्वरूपविचारः सांख्यशास्त्रस्य विषयः । विवेचित स्वरूपाणां प्रमेयपदार्थानां प्रतिपादकानि यानि वैदिकवाक्यानि, तेषु दृश्यमानो विरोधः परिहियते उत्तरमीमांसासूत्रेण, अतः भिन्नव्यापारकरणात् नोत्तरमीमांसा - सांख्ययोः कोऽपि विरोधः संभाव्यते । यथा न छन्दःशास्त्रेण सह निरुक्तस्य विरोधः कल्पनीयः, तथा अत्रापीति मन्तव्यम् । अयोगतत्त्वविद्भिः शङ्करादिभिर्वृथैव सांख्योत्तरमीमांसयोर्विरोधो दर्शितः । वस्तुतो न पूर्वोत्तरमीमांसे दर्शनशास्त्रे, न खलु वाक्यार्थविरोधप्रशमनं कदापि दर्शनपदवाच्यं भवितुमर्हति । यत्रान्वीक्षिकीबलेनात्मादयः परीक्ष्यन्ते तच्छास्त्रमेव दर्शन मिति । तेषु च दर्शनेषु सांख्यमेव श्रेष्ठम् । अत एव 'तत् कारणं सांख्ययोगाधिगम्यम्' इति श्रूयते । ( श्वे० उ० ६।१३ )