पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतडीकायुतव्यासभाष्यसमेतम् [पा. सू. १७ तत्र वाग्वर्णेष्वेवार्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् । पदं पुनर्नादानुसंहारबुद्धिनिर्माह्यमिति । वर्णा एकसमयासंभवित्वात्परस्परनिरनुग्रहात्मानः, ते पदमसंस्पृश्या- नुपस्थाप्याविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते । वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तर- सात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् । अत्र वाचकं शब्दमाचि- ख्यासुः प्रथमं तावद्वाग्व्यापारविषयमाह तत्रेति । वाग्वागिन्द्रयं वर्णव्यञ्जकमष्ट- स्थानम् | यथाह - अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ (पाणिनीय शिक्षा १३ ) इति । सा वाग्वर्णेष्वेव यथालोकप्रतीतिसिद्धेष्वर्थवती न वाचक इत्यर्थः । श्रोत्रव्यापारविषयं निरूपयति - श्रोत्रं पुनर्ध्वनेरुदानस्य वागिन्द्रियाभिघातिनो यः परिणतिभेदो वर्णात्मा तेनाकारेण परिणततन्मात्रविषयं न तु वाचकविषयमि- त्यर्थः । यथालोकप्रतीतिसिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति - पदं पुनर्वाचक नादानुसंहार बुद्धिनिर्ग्राह्यं यथाप्रतीतिसिद्धान्नादान्वर्णान्प्रत्येकं गृह त्वानु पश्चाद्या संहरत्येकत्वमापादयति गौरित्येतदेकं पदमिति तया पदं गृह्यते । यद्यपि प्राच्योऽपि बुद्धयो वर्णाकारं पदमेव प्रत्येकं गोचरयन्ति, तथापि न विशदं प्रथते । चरमे तु विज्ञाने तदतिविशदमिति नादानुसंहारबुद्धिनिर्ग्राह्यमुक्तम् यस्तु वैजात्या देकपदानुभवमविज्ञाय वर्णानेव वाचकानातिष्ठते तं प्रत्याह- वर्णा इति। ते खल्वमी वर्णाः प्रत्येकं वाच्यविषयां षियमादधीरन्नागदन्तका इव शिक्यावलम्बनं, संहता वा ग्रावाण इव पिठरधारणम् । न तावत्प्रथमः कल्पः। एकस्मादर्थप्रतीतेरनुत्पत्तेः । उत्पत्तौ वा द्वितीयादीनामनुच्चारणप्रसङ्गः।- निष्पादितक्रिये कर्मणि विशेषानाधायिनः साधनस्य साधनन्यायातिपातात् । तस्माद् द्वितीयः परिशिष्यते। संभवति हि ग्राव्णां संहतानां पिठरधारणमेकसम- यभावित्वात् । वर्णानां तु यौगपद्यासंभवः । अतः परस्पर मनुग्राह्यानुग्राहकत्वायो- गात्संभूयापि नार्थंधियमादधते । ते प द रूप मेकमसंस्पृशन्तस्तादात्म्येनात एवानुप- स्थापयन्त आविर्भूतास्तिरोभूता अयःशलाकाकल्पाः प्रत्येक मपदस्वरूपा उच्यन्ते । यदि पुनः पदमेकं तादात्म्येन स्पृशेयुर्वर्णास्ततो नोक्तदोषप्रसङ्ग इत्याह- वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सर्वाभिरभिधानशक्ति- भिर्निचितः । गोगणगौर नगेत्यादिषु हि गकारो गोत्वाद्यर्थाभिधायिषु दृष्ट इति तत्त- दभिधानशक्तिः । एवं सोमशोचिरित्या दिष्वीश्वराद्यर्थाभिधायिषु पदेष्वोवर्णो दृष्ट