पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११९ वाचस्पतिकृतटीकायुत व्यासभाध्यसमेतम् [पा. सू. १५ क्रमः । यो यस्य धर्मस्य समनन्तरो घर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागत- भावाद्वर्तमानभावक्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावक्रमः । नातीतस्यास्ति क्रमः । कस्मात् ? पूर्वपरतायां सत्यां समनन्तरत्वम्, सा तु नास्त्यतीतस्य । तस्माद् द्वयोरेव लक्षणयोः क्रमः । तथावस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमे- णाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदायमेकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्माः परिदृशञ्चापरिदृष्टाच। तत्र प्रत्ययात्मकाः परिदृष्टाः । सोऽयं क्रमभेदः परिणाम एकस्मिन्नवकल्पमानः परिणामभेदमापादयति। एकोऽपि च मृद्धर्मी क्रमोपनिपतितत्तत्सह कारिसमवधानक्रमेण क्रमवर्ती परिणामपरम्परा मुद्वहन्नैनामाकस्मिकयतीति भावः । धर्मपरिणामान्यत्ववलक्षणपरिणामान्यत्वेऽ वस्थापरिणामान्यत्वे च समानं क्रमान्यत्वं हेतुरिति । तदेतद्भाष्येणावद्योत्यते- एकस्य धर्मिण इति । क्रमक्रमवतोरभेदमास्थाय स तस्य क्रम इत्युक्तम् । तथावस्थापरिणामक्रम इति । तथा हि—कीनाशेन कोष्ठागारे प्रयत्नसंरक्षिता अपि हि ब्रीहयो हायनैरतिबहुभिः पाणिस्पर्शमात्रविशीर्यमाणावयवसंस्थानाः परमाणुभावमनुभवन्तो दृश्यन्ते । न चायमभिनवानामकस्मादेव प्रादुर्भवितुम- ईति । तस्मात्क्षणपरम्पराक्रमेण सूक्ष्म सूक्ष्मतरसूक्ष्मतम बृहद्बृहत्तरबृहत्तमादिक्रमेण प्रान्तेषु विशिष्टोऽयं लक्ष्यत इति । तदिदं क्रमान्यत्वं धर्मधर्मिभेदपक्ष एवेत्याह- इत एत इति। आ विकारेभ्य आ चालिङ्गादापेक्षिको धर्मधर्मिभावो मृदादेरपि तन्मात्रापेक्षया धर्मत्वादि- त्याह — धर्मोऽपीति । यदा परमार्थधर्मिण्यलिङ्गेऽमेदोपचारप्रयोगस्तद्द्वारेण सामानाधिकरण्यद्वारेण धर्म्येव धर्म इति यावत् । तदैक एव परिणामो धर्मि- रिणाम एवेत्यर्थः । धर्मलक्षणावस्थानां धर्मिस्वरूपाभिनिवेशात् । तदनेन धर्मिणो दूरोत्सारितं कूटस्थ नित्यत्वमित्युक्तप्रायम् । धर्मपरिणामं प्रतिपादयन्प्रसङ्गेन चित्तधर्माणां प्रकारभेद माइ-चित्तस्येति । परिदृष्टाः प्रत्यक्षाः । अपरिदृष्टाः परोक्षाः । तत्र प्रत्ययात्मकाः प्रमाणादयः । रागादयस्तु वस्तुमात्रा इत्यप्रकाशरूपतामाह । स्यादेतत् - अपरिदृष्टान