११६ पा. ३ सू १४ ] पातञ्जलयोगसूत्रम् मनुभवन्नवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरमवस्था, धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामा धर्मिंस्त्र- रूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते । अथ कोऽयं परिणामः ? अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः ।। १३ ।। तंत्र- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानु- मितसद्भाव एकस्यान्योऽन्यञ्च परिदृष्टः । तत्र वर्तमानः स्वव्यापार- मन्भवन्धर्मो धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत । हरणमिति । न चायं नियमो लक्षणानामेवावस्थापरिणाम इति । सर्वेषामेव धर्मलक्षणावस्था मेदानामवस्थाशब्दवाच्यत्वादेक एवावस्थापरिणामः सर्वसाधा- रण इत्याह – धर्मिणोऽपीति । व्यापकं परिणामलक्षणमाह–अवस्थितस्य द्रव्यस्येति । धर्मशब्द आश्रितत्वेन घर्मलक्षणावस्थावाचकः ॥ १३ ॥ यस्यैष त्रिविधः परिणामस्तं धर्मिणं सूत्रेण लक्षयति–तत्र - शान्तोदि- ताव्यपदेश्यधर्मानुपाती धर्मी । धर्मोऽस्यास्तीति धर्मीति नाविज्ञाते धर्मे स शक्यो ज्ञातुमिति धर्मं दर्शयति-योग्यतेति । धर्मिणो द्रव्यस्य मृदादेः शक्तिरेव चूर्ण- पिण्डघटाद्युत्पत्तिशक्तिरेव धर्मः । केपां तत्राव्यक्तेन भाव इति यावत्। नन्वेवम- व्यक्ततया सन्तस्ते ततः प्रादुर्भवन्तु । उदकाहरणादयस्तु तैः स्वकारणादनासादिता कुतः प्राप्ता इत्यत उक्तम्- योग्यतावच्छिन्नेति । यासौ घटादीनामुत्पत्तिशक्तिः सोदकाहरणादियोग्यतावच्छिन्ना | तेनोदकाहरणादयोऽपि घटादिभिः स्वकारणा- देव प्राप्ता इति । नाकस्मिका इति भावः । अथवा के धर्मिण इत्यत्रोत्तरं- योग्यतावच्छिन्ना घर्मिण इति । को धर्म इत्यत्रोत्तरं शक्तिरेव धर्मः । तेषां योग्यतैव धर्म इत्यर्थः । अतस्तद्वान्धमति सिद्ध मवति । तत्सद्भावे प्रमाणमाह - सच फलप्रसवभेदानुमित एकस्य धर्मिणोऽन्यश्चान्यश्च चूर्णपिण्डघटादिरूप इत्यर्थः । कार्यभेददर्शनाच भिन्न इति यावत् । परिदृष्ट उपलब्धः । तत्रानुभवारोहिणो वर्तमानस्य मृत्पिडस्य शान्ताव्यपदेश्याभ्यां मृच्चूर्णमृद्धटाभ्यां भेदमाह- तत्र वर्तमान इति । यदि न भिद्येत पिण्डवच्चूर्णंघटयोरपि तद्वदेव स्वव्या- पारव्यातिप्रसङ्ग इति भावः । अव्यक्तस्य तु पिण्डस्य नोक्तं भेदसाधनं संभव- -
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२३
दिखावट