पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. ३. सू. १३ ] पातञ्जलयोगसूत्रम् [११०] एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामञ्चोक्तो वेदितव्यः । तत्र व्युत्थान- निरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामच निरोधस्त्रिलक्षण स्त्रिभिरध्वभिर्युक्तः । स खल्वागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नो यत्रास्य स्वरूपेणाभिव्यक्तिः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागत भ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानं लक्षणं हित्वा धर्मृत्वमनति- क्रान्तमतीतलक्षणं प्रतिपन्नम्। एषोऽस्य तृतीयोऽध्या । न चानागतवर्तमानाभ्यां लक्षणाभ्यां त्रियुक्तम् । एवं पुनर्व्युत्थानमुपसंपद्यमानमनागतं लक्षणं हित्वा धर्म- त्वमनतिक्रान्तं वर्तमानं लक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्त- ननु चित्तपरिणतिमात्रमुक्तं न तु तत्प्रकारा धर्मलक्षणावस्थापरिणामाः, तत्कथं तेषामतिदेश इत्यत आह -तत्र व्युत्थाननिरोधयोरिति । धर्मलक्षणावस्था- शब्दाः परं नोच्चारिता, न तु धर्मलक्षणावस्थापरिणामा नोक्का इति संक्षेपार्थः । तथा हि व्युत्थाननिरोधसंस्कारयोरित्यत्रैव सूत्रे धर्मपरिणाम उक्तः । इमं च धर्मपरिणामं दर्शयता तेनैव धर्माधिकरणो लक्षणपरिणामोऽपि सूचित एवेत्याह- लक्षणपरिणाम इति । लक्ष्यतेऽनेनेति लक्षणं कालभेदः । तेन हि लक्षितं वस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्यो व्यवच्छिद्यत इति । निरोधस्त्रिलक्षणः । अस्यैव व्याख्यानं त्रिभिरध्वभिर्युक्तः । अध्वशब्दः कालवचनः । स खल्वना- गतलक्षणमध्वानं प्रथमं हित्वा । तत्किमध्ववद्धर्मत्वमप्यतिपतति, नेत्याह- धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः इति । य एव निरोधोऽनागत आसीत्स एव संप्रति वर्तमानो न तु निरोधोऽनिरोध इत्यर्थः । वर्तमानतास्वरूप- व्याख्यानम् – यत्रास्य स्वरूपेण स्वोचितार्थक्रियाकरणस्वरूपेणाभिव्यक्तिः । समुदाचारः । एषोऽस्य प्रथममनागतमध्वानमपेक्ष्य द्वितीयोऽध्वा । स्यादेतत्- अनागतमध्वानं हित्वा चेद्वर्तमानतामापन्नस्तां च हित्वातीततामापत्स्यते, इन्त भोरध्वनामुत्पादविनाशौ स्याताम् । न चेप्येते । न ह्यसत उत्पादो नापि सतो विनाश इति । अत आह-न चातीतानागताभ्यां सामान्यात्मनावस्थिताभ्यां वियुक्त इति । अनागतस्य निरोधस्य वर्तमानतालक्षणं दर्शयित्वा वर्तमानव्युत्थानस्या- तीततां तृतीयमध्यानमाह — तथा व्युत्थानमिति । तल्कि निरोध एवानागतो न भ्युत्थानं, नेत्याह—एवं पुनर्व्युत्थानमिति । व्युत्थानजात्यपेक्षया पुन-