वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. ३ सू. ८ धरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तद्भावाच्च कुत- स्तस्य प्रज्ञालोकः ! ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु पर चित्तज्ञानादिषु संयमो युक्तः । कस्मात् ? तदर्थस्यान्यत एवावगतत्वात् । भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः । कथम् ? एवं ह्युक्तम्- १०७ योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ इति ॥ ६ ॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७ ॥ तदेतद्धारण ध्यान समाधित्रयमन्तरङ्ग यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥ संप्रज्ञातस्य समाधेः पूर्वेभ्यो तदपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥ तद्प्यन्तरङ्ग साधनत्रयं निर्बीजस्य योगस्य वहिरङ्ग भवति । कस्मात् ? तदभावे भावादिति ॥ ८ ॥ कस्मात्पुनरधरां भूमिं विजित्योत्तरां विजयते विपर्ययः कस्मान्न भवतीत्यत आह-न ह्यजिताधरभूमिरिति । न हि शिलाहदाद्गङ्गां प्रति प्रस्थितोऽप्राप्य मेघवनं गङ्गां प्राप्नोति । ईश्वरप्रसादाज्जितोत्तरभूमिकस्य चेति । कस्मात् ? तदर्थस्योत्तरभूमिविजयस्य प्रत्यासन्नस्यान्यत एवेश्वरप्राणिधानादेवावगतत्वात् । निष्पादितक्रिये कर्मण्यविशेषाधायिनः साधनस्यासाधनन्यायातिपातादिति । स्यादेतत् – आगमतः सामान्यतोऽवगतानामप्यवान्तरभूमिभेदानां कुतः पौर्वा- पर्यावगतिरित्यत आइ–भूमेरस्या इति । जितः पूर्वो योग उत्तरस्य योगस्य ज्ञानप्रवृत्त्यधिगमहेतुः । अवस्थैवावस्थावानित्यभिप्रेत्यैतद् द्रष्टव्यम् ॥ ६ ॥ • कस्मात्पुनर्योगाङ्गत्वाविशेषेऽपि संयमस्य तत्र तत्र विनियोगो नेतरेषां पञ्चा- नामित्यत आह—त्रयमन्तरङ्ग पूर्वेभ्यः । तदिदं साधनत्रयं साध्यसमानविषय- त्वेनान्तरङ्गम्। न त्वेवं यमादयः, तस्मात्ते बहिरङ्गा इत्यर्थः ॥ ७ ॥ साधनत्रयस्य संप्रज्ञात एवान्तरङ्गत्वं न त्वसंप्रज्ञाते। तस्य निर्बीजतया तैः सह समानविषयत्वाभावात्तेषु चिरनिरुद्धेषु संप्रज्ञातपरमकाष्ठापरनामज्ञानप्रसाद- रूपपरवैराग्यानन्तरमुत्पादाच्चेत्याह- तदपि बहिरङ्ग निर्बीजस्य । समान- विषयत्वमन्तरङ्गत्वप्रयोजकमिह न तु तदनन्तरभावस्तस्य बहिरङ्गेश्वरप्रणिधान- वर्तितया सव्यभिचारत्वादिति स्थिते सव्यभिचारमप्यन्तरङ्गलक्षणं तदनन्तर- भावित्वमस्य नास्ति । तस्माद्दूरापेतान्तरङ्गता संयमस्यासंप्रज्ञात इति दर्शयितुं तदभावे भावादित्युक्तम् ॥ ८ ॥
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१४
दिखावट