वाचस्पतिकृनटीकायुतच्यासमाष्यसमेतम् [पा. ३.३ तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥ तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृश: प्रवाहः प्रत्यया- न्तरेणापरामृष्टो ध्यानम् ॥ २ ॥ 2 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥ ध्यानमेव ध्येयाकार निर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ॥ ३ ॥ समकर्णान्तविन्यस्तचा रुकुण्डलभूषणम् । कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ||८०|| वलीविभङ्गिना मग्ननाभिना चोदरेण च । प्रलम्बाष्ठभुजं विष्णुमथ वापि चतुर्भुजम् ||८१|| समस्थितोरुजङ्घ च स्वस्तिकाङकिराम्बुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ||८२|| किरीटचारुकेयूरकटकादिविभूषितम् । शार्ङ्गचक्रगदाखङ्गशङ्खाक्षवलयान्वितम् ||८३|| चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद् दृढीभूता तत्रैव नृप धारणा ॥८४|| एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तं सिद्धां मन्येत तां तदा ||५|| ( विष्णु पु. ६।७।७७-८५ ) इति ॥ १ ॥ धारणासाध्यं ध्यानं लक्षयति-तत्र प्रत्ययैकतानता ध्यानम् । एकतानतै- काग्रता । सुगमं भाष्यम् । अत्रापि पुराणम् - तद्रूपप्रत्ययैकाग्रयसंततिश्चान्यीनिःस्पृहा । तद्धयानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप || (विष्णु पु. ६॥७॥८६) इति ॥२॥ ध्यानसाध्यं समाधि लक्षयति —तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः । व्याचष्टे—ध्यानमेवेति । ध्येयाकारनिर्भासमिति । ध्येयाकार- स्यैव निर्भासो न ध्यानाकारस्येति । अत एवाह - शून्यमिति । ननु शून्यं चेत्कथं ध्येयं प्रकाशेतेत्यत आह — इवेति । अत्रैव हेतुमाह - ध्येयस्वभावा- वेशादिति । अत्रापि पुराणम्- तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ ( विष्णु पु० ६/७/६०) इति । ध्येयाद्धथानस्य मेदः कल्पना, तद्धीनमित्यर्थः । अष्टाङ्गयोगमुक्त्वा
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१२
दिखावट