पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७ वाचस्पति कृतटीकायुतम्या समाप्यसमेतम् [पा. २. धू. ४४ मेवाप्रयतैः संसृज्येत ॥ ४० ॥ किं च - सत्रशुद्धिसौमनस्यै काग्रय न्द्रियजयात्मदर्शन- योग्यत्वानि च ॥ ४१ ॥ भवन्तीति वाक्यशेषः । शुचेः सत्त्रशुद्धिस्ततः सौमनस्यं तत ऐकाग्रथ तत इन्द्रियजयस्ततञ्चात्मदर्शनयोग्यत्वं बुद्धिसत्यस्य भवतीत्येतच्छौचस्थे- र्यादधिगम्यत इति ॥ ४१ ॥ सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥ तथा चोक्तम्- यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ॥ ४२ ॥ ( शान्ति: १७४|४६; १७७१५१ ) कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ निर्वर्त्यमानमेव तपो हिनस्त्यशुद्धथावरणमलम् । तदावरणमळापग- मात्कायसिद्धिरणिमाद्या । तथेन्द्रियसिद्धिदूराच्छ्रवणदर्शनाद्येति ॥ ४२ ॥ स्वाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥ देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्ये चास्य वर्तन्त इति ॥ ४४ ॥ कथितम् ॥ ४० ॥ आन्तरशौचसिद्धिसूचकमाह—किं चेति । सत्त्वशुद्धिसौमनस्यैकाग्र्ये- न्द्रियजयात्मदर्शनयोग्यत्वानि च । चित्तमलानामाक्षालने चित्तसत्त्वममलं प्रादुर्भवति, वैमल्यात्सौमनस्यं स्वच्छता, स्वच्छं तदेकाग्रं, ततो मनस्तन्त्राणामि- न्द्रियाणां तज्जयाज्जयस्तत आत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीति ॥ ४१ ॥ संतोषादनुत्तमः सुखलाभः । न विद्यतेऽस्मादुत्तम इत्यनुत्तमः । यथा चोक्तं ययातिना पूरौ यौवनमर्पयता- या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां संत्यजन्प्राज्ञः सुखेनैवाभिपूर्यते ॥ (विष्णुपु. ४।१०।१२) इति । तदेतद्दर्शयति- यच्च कामसुखं लोक इत्यादिना ॥ ४२ । तपःसिद्धिसूचकमाह—कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । अशुद्धिलक्ष- णमावरणं तामसमधर्मादि । अणिमाद्या महिमा लघिमा प्राप्तिश्च । सुगमम् ॥४३॥ स्वाध्याय (सद्धिसूचकमाह- स्वाध्यायादिष्टदेवतासंप्रयोगः । सुगमम् ||४४|| ७ यो० सू०