वाचस्पतिकृतटीकायुतव्यास भाष्यसमेतम् [पा. २ सू. १९ दृश्यस्वरूपमुच्यते- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥ प्रकाशशीलं सत्त्वम् । क्रियाशीलं रजः । स्थितिशीलं तम इति । एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगविभागधर्माण इतरेतरो- पाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसंभिन्नशक्तिप्रविभागास्तुल्यजा- तीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायामुपदर्शितसंनिधाना गुण- तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति । दर्शितविषयत्वमनु- तापहेतुः। तच्च प्राग् ( ११४ टीका ) व्याख्यातम् ॥ १७ ॥ प्रकाशक्रियास्थितिशीलं भोगापवर्गार्थं दृश्यम् । भूतेन्द्रियात्मकं व्याचष्टे – प्रकाशेति । सत्त्वस्य हि भागः प्रकाशस्तामसेन भागेन दैन्येन वा राजसेन वा दुःखेनानुरज्यते । एवं राजसादिष्वपि द्रष्टव्यम् । तदिदमुक्तम्- परस्परोपरक्तप्रविभागा इति । पुरुषेण सह संयोगविभागधर्माणः । यथाम्नायते- “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥” ( श्वे० १० उप० ४१५ ) इति । इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्यादिरूपा यैस्ते तथोक्ताः । स्यादेतत्- सत्त्वेन शान्तप्रत्यये जनयितव्ये रजस्तमसोरपि सत्त्वाङ्गत्वेन तत्र हेतुभावादस्ति सामर्थ्यमिति यदापि च रजस्तमसोरङ्गित्वं तदापि शान्त एव प्रत्यय उदीयेत न घोरो मूढो वा सत्त्वप्राधान्य इवेत्यत आह-परस्पराङ्गाङ्गित्वेऽप्यसंभिन्न- शक्तिप्रविभागाः । भवतु शान्ते प्रत्यये जनयितव्ये रजस्तमसोरङ्गभावः । तथापि नैषां शक्तयः संकीर्यन्ते । कार्यासंकरोन्नेयो हि शक्तीनामसंकरः । असंकीर्णेन च समुदाचरता रूपेण शान्तघोरमूढरूपाणि कार्याणि दृश्यन्त इति सिद्धं शक्ती- नामसंभेद इति । स्यादेतत् - असंभेदश्चेच्छतीनां न संभूयकारित्वं गुणानाम् । न जातु भिन्नशक्तीनां संभूयकारित्वं दृष्टम् । न हि तन्तुमृत्पिण्डवीरणादीनि ‘घटादीन्संभूय कुर्वन्ति इत्यत आह - तुल्यजातीयातुल्यजातीयशक्तिभेदानु- पातिनः । यद्यपि तुल्यजातीय उपादानशक्तिर्नान्यत्र, सहकारिश तिस्त्वतुल्य- जातीये । घटे तु जनयितव्ये न वीरणानामस्ति सहकारिशक्तिरपीति न तैस्तन्तू- नां संभूयकारितेति भावः। तुल्यजातीयातुल्यजातीयेषु शक्येषु ये शक्तिभेदा- स्ताननुपतितुं शीलं येषां ते तथोक्ताः । प्रधानवेळायामिति । दिव्यशरीरे
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८०
दिखावट