७१ वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. २ सू. १७ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः। दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः । तदेतद् दृश्यमयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः । अनुभवकर्मविषयतामापन्न मन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात् परतन्त्रम् । - हेयमुक्तम्।तस्य निदानमुच्यते-दृष्टृदृश्ययोः संयोगो हेयहेतुः । द्रष्टुः स्वरू. पमाह - द्रष्टेति । चितिच्छायापत्तिरेव बुद्धेर्बुद्धिप्रतिसंवेदित्वमुदासीनस्यापि पुंसः । नन्वेतावतापि बुद्धिरेवानेन दृश्येत, न दृश्येरञ्छब्दादयोऽत्यन्तव्यवहिता इत्यत आह - दृश्या बुद्धिसत्त्वेति । इन्द्रियप्रणालिकया बुद्धौ शब्दाद्याका- रेण परिणतायां दृश्यायां भवन्ति शब्दादयोऽपि धर्मा दृश्या इत्यर्थः । ननु तदा- कारापत्त्या बुद्धिः शब्दाद्याकारा भवतु । पुंसस्तु बुद्धिसंबन्धेऽभ्युपगम्यमाने परि णामित्वम् । असंबन्धे वा कथं तेषां बुद्धिसत्त्वोपारूढानामपि शब्दादीनां दृश्यत्वम् ? न हि दृशिनाऽसंस्पृष्टं दृश्यं दृष्टमित्यत आह - तदेतद्द्दृश्यमिति । प्रपञ्चितमिद- मस्माभिः प्रथमपाद एव यथा चित्यासंपृक्तमपि बुद्धिसत्त्वमत्यन्तस्वच्छतया चितिबिम्बोद्ग्राहितया समापन्नचैतन्यमिव शब्दाद्यनुभवतीति । अत एव च शब्दाद्याकारपरिणतबुद्धिसत्त्वोपनीतान् सुखा दीन्भुञ्जानः स्वामी भवति द्रष्टा, तादृशं चास्य बुद्धिसत्त्वं स्वं भवति । तदेतद्द्बुद्धिसत्त्वं शब्दाद्याकारवद्हश्यमय- स्कान्तमणिकल्पं पुरुषस्य स्वं भवति दृशिरूपस्य स्वामिनः । कस्मात्, अनभव- कर्मविषयतामापन्नं यतः । अनुभवो भोगः पुरुषस्य कर्म क्रिया तद्विषयतां भुज्यमानतामापन्नं यस्मादतः स्वं भवति । ननु स्वयंप्रकाशं बुद्धिसत्त्वं कथमनु- भवविषय इत्यत आह - अन्यस्वरूपेणेति । यदि हि चैतन्यरूपं वस्तुतो बुद्धिसत्त्वं स्याद्भवेत्स्वयंप्रकाशम् । किं तु स्वं चैतन्यादन्यजडरूपं तेन प्रतिलब्धा- त्मकं तस्मात्तदनुभवविषयः । ननु यस्य हि यत्र किञ्चिदायतते तत्तदधीनम् । न च बुद्धिसत्त्वस्य पुरुषमुदासीनं प्रति किञ्चिदायतत इति कथं तत्तन्त्रम् | तथा च न तस्य कर्मेत्यत आह – स्वतन्त्रमपि परार्थत्वात्पुरुषार्थत्वा- त्परतन्त्रं पुरुषतन्त्रम् । -नन्वयं दृग्दर्शनशक्त्योः संबन्धः स्वाभाविको वा स्यान्नैमित्तिको वा । स्वा- भाविकत्वे संबन्धिनोर्नित्यत्वादशक्योच्छेदः संबन्धः । तथा च संसारनित्यत्वम् । नैमित्तिकत्वे तु क्लेशकर्मतद्वासनानामन्तःकरणवृत्तितया सत्यन्तःकरणे भावाद- न्तःकरणस्य च तन्निमित्तत्त्वे परस्पराश्रयप्रसङ्गादनादित्वस्य च सर्गादावसंभवा- दनुत्पाद एव संसारस्य स्यात् । यथोक्तम्-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७८
दिखावट