पा. २ सू १५ ] पातञ्जलयोगसूत्रम् अथ का तापदुःखता ? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीन- स्तापानुभव इति, तत्रास्ति द्वोपजः कर्माशयः । सुखसाधनानि च प्रार्थय- मानः कायेन वाचा मनसा च परिस्पन्दते, ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच भवतीत्येषा तापदुःखतोच्यते । का पुनः संस्कारदुःखता ? सुखानुभवात्सुखसंस्काराशयो दुःखानु- भवादपि दुःखसंस्काराशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति । एवमिदमनादि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्व - जयति । कस्मात् ? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति नान्येषु गात्रावयवेषु । एवमेतानि दुःखान्य- क्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्त्रकर्मोप- हृतं दुःखमुपात्तमुपात्तं त्यजन्तं, त्यक्तं त्यक्तमुपाददानमनादिवासनाविचि- त्रया चित्तवृत्त्या समन्ततोऽनुविद्ध मिवाविद्यया हातव्य एवाहंकारममकारानु- पातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते । तदेवमनादिना दुःखस्रोतसा व्यूह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति । ६८ इति । शेषमतिरोहितम् । तापदुःखतां पृच्छति—अथ केति । उत्तरम् - सर्वस्येति । सर्वजनप्रसिद्ध- त्वेन तत्स्वरूप प्रपञ्चमकृत्वा तापदुःखतापि परिणामदुःखतासमतया प्रपञ्चितेति । संस्कारदुःखतां पृच्छति— केति । उत्तरम् - सुखेति । सुखानुभवो हि संस्का- रमाधत्ते । स च सुखस्मरणं तच्च रागं स च मनःकायवचनचेष्टां सा च पुण्या- पुण्ये ततो विपाकानुभवस्ततो वासनेत्येवमनादितेति । अत्र च सुखदुःख- संस्कारातिशयात्तत्स्मरणं तस्माच्च रागद्वेषौ ताभ्यां कर्माणि कर्मभ्यो विपाक इति योजना । तदेवं दुःखस्रोतः प्रसृतं योगिनमेव क्लिश्नाति नेतरं पृथग्जनमित्याह-एव- मिदमनादीति । इतरं तु त्रिपर्वाणस्तापा अनुप्लवन्त इति संबन्धः । आधि- भौतिकाधिदैविकयोस्तापयोर्चाह्यत्वेनैकत्वं विवक्षितम् । चित्ते वृत्तिरस्या इत्य- विद्या चित्तवृत्तिस्तया हातव्य एव बुद्धीन्द्रियशरीरादी दारापत्यादौ चाहंकार- ममकारानुपातिनमिति । तदत्र न सम्यग्दर्शनादन्यत्परित्राणमस्तीत्याह- तदेवमिति ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७५
दिखावट