वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् । पातञ्जलयोगसूत्रम् तत्र साधनपादः द्वितीय: उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते- तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥ नातपस्विनो योगः सिध्यति । अनादिकमक्तेशवासनाचित्रा प्रत्युप- स्थितविषयजाला चाशुद्धिर्नान्तरेण तपः संभेदमापद्यत इति तपस उपादा- नम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते । - ननु प्रथमपादेनैव सोप यः सावान्तरप्रभेदः सफलो योग उक्तस्तत्किमपरम- वशिष्यते यदथं द्वितीयः पादः प्रारभ्येतेत्यत आह - उद्दिष्ट इति । अभ्यास- .वैराग्ये हि योगोपायौ प्रथमे पाद उक्तौ । न च तौ व्युत्थितचित्तस्य द्रागित्येव संभवत इति द्वितीयपादोपदेश्यानुपायानपेक्षते सत्त्वशुद्धयर्थम् । ततो हि विशुद्धसत्त्वः कृतरक्षासंविधानोऽभ्यासवैराग्ये प्रत्यहं भावयति । समाहितत्वम- विक्षप्तत्वम् । कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरुपायैर्युक्तः सन् योगी स्यादित्यर्थः । तत्र वदयमाणेषु नियमेष्वाकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रियायोग- मुपदिशति सूत्रकारः – तपःस्वाध्यायेत्यादि । क्रियैव योगः क्रियायोगो योगसा- धनत्वात् । अत एव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे- “योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते । ” ( ६।७७३३ ) इत्युपक्रम्य तपःस्वाध्यायादयो दर्शिताः। व्यतिरेकमुखेन तपस उपायत्वमाह- नातपस्विन इति । तपसोऽवान्तरव्यापारमुपायतोपयोगिनं दर्शयति – अनादीति । अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्रात एव प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता । अशुद्धी रजस्तमःसमुद्रेको नान्तरेण तपः संभेदमापद्यते । सान्द्रस्य नितान्तविरलता संमेदः । ननूपादीयमानमपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपाय इत्यत आह—तच्चेति । तावन्मात्रमेव तपश्चरणीयं न यावता धातुवैषम्यमापद्येतेत्यर्थः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५८
दिखावट