पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● विषय कारपना रूपात. पा. १ सू. ५० ] 'पातञ्जलयोगसूत्रम् Establish] समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते- तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ।। । (केवल ४८ संस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोधे समाधिरुप- तिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते । ततश्च प्रज्ञा ततश्च संस्कारा इति । कथमसौ संस्का- राशयश्चित्तं साधिकार न करिष्यतीति । न ते प्रज्ञाकृताः संस्काराः क्लेशक्षय हेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकार्यादवसादयन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥ (यावत) 3 इत्यर्थः । इति तस्मात् । समाधिप्रज्ञानिर्ग्राह्य एवेति । अत्र च विवादाध्यासिताः परमाणव आत्मानश्च प्रातिस्विक विशेषशालिनो द्रव्यत्वे सति परस्परं व्याव- र्तमानत्वाद्, ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रातिस्विकविशेषशालिनो यथा खण्डमुण्डादय इत्यनुमानेनागमेन च ऋतंभरप्रज्ञोपदेशपरेण, यद्यपि विशेषो निरूप्यते तदनिरूपणे संशयः स्यान्न्यायप्राप्तत्वात्तथाप्यदूरविप्रकर्षेण तत्सत्त्वं कथंचिद्गोचरयतः श्रुतानुमाने । न तु साक्षाच्चार्थमिव समुच्चयादिपदानि लिङ्ग- संख्यायोगितया । तस्मात्सिद्धं श्रुतानुमानप्रज्ञाभ्यामन्यविषयेति ॥४६॥ स्यादेतत् — भवतु परमार्थविषयः संप्रज्ञातो यथोक्तोपायाभ्यासात् । अनादिना तु व्युत्थानसंस्कारेण निरूढनिबिडतया प्रतिबन्धनीया समाधिप्रज्ञा सा वात्यावर्त- मध्यवर्तिप्रदीपपरमाणुरिवेति शङ्कामपनेतुं सूत्रमवतारयति-समाधिप्रज्ञेति । सूत्रं पठति - तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी । तदिति निर्विचारां समापत्ति परामृशति । अन्येति व्युत्थानमाह । भूतार्थपक्षपातो हि धियां स्वभावस्तावदेवेयमनवस्थिता भ्राम्यति न यावत्तत्त्वं प्रतिलभते । तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारबुद्धिः संस्कारबुद्धिचक्रक्रमेणावर्तमानानादिमप्ये- तत् तत्त्वसंस्कारबुद्धिक्रमं बाधत एवेति । तथा च बाह्या अप्याहु:- "निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधोऽनादिमत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥” इति । स्यादेतत्—समाधिप्रज्ञातोऽस्तु व्युत्थानजस्य संस्कारस्थ निरोधः। समाधिजस्तु संस्कारातिशयः समाधिप्रज्ञाप्रसवहेतुरस्त्यविकल इति तदवस्थैत्र चित्तस्य साधिकारतेति चोदयति- कथमसाविति । परिहरति - न त इति । चित्तस्य हि कार्यद्वय शब्दाद्युपभोगो विवेकख्यातिश्चेति । तत्र क्लेकर्माशयसहितं शब्दाद्युपभोगे प्रवर्तते । प्रज्ञाप्रभवसंस्कारोन्मूलितनिखिलक्लेशकर्माशयस्य तु