वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. १सू. ३६ विशोका वा ज्योतिष्मती ॥ ३६ ॥ प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते । हृदयपुण्डरीके धार- यतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं, तत्र स्थिति- वैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते । तथाऽस्मितायां समापनं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । यत्रेदमुक्तम्–तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्संप्रजानीत इति । एपा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मतीत्युच्यते यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ।। करणे च श्रद्धातिशयो जायते । तन्मूलाश्च ध्यानादयोऽस्याप्रत्यूहं भवन्ती- त्यर्थः ॥ ३५ ॥ सुषम विशोका वा ज्योतिष्मती । विगतशोका दुःखरहिता । ज्योतिष्मती ज्योति- रस्या अस्तीति ज्योतिष्मती प्रकाशरूपा । हृदयपुण्डरीक इति । उदरोर- सोर्मध्ये यत्पद्ममधोमुखं तिष्ठत्यष्टदलं रेचकप्राणायामेन तदूर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत्, तन्मध्ये सूर्यमण्डलमकारो जागरितस्थानं, तस्योपरि चन्द्रमण्डल- मुकार: स्वप्नस्थानम् । तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानम्, यस्योपरि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्मवादिनः । तत्र कर्णिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी । ततोप्यूर्ध्व प्रवृत्ता नाम नाडी, तथा खलु बाह्यान्यपि सूर्यादीनि मण्डलानि प्रोतानि । साहि चित्तस्थानम्, तस्यां धारयतो योगिनश्चित्तसंविदुपजायते । उपपत्ति- पूर्वकंवद बुद्धिसं आकारमादर्शयति- बुद्धिसत्त्वं हीति । आकाशकल्पमिति व्यापितामाह । सूर्यादीनां प्रभास्तासां रूपं तदाकारेण विकाते नानारूपा भवति । मनश्चात्र बुद्धिरभिमतं न तु महत्तत्त्वम् । तस्य च सुषुम्नास्थस्य वैकारिकाह- ङ्कारजन्मनः सत्त्व बहुलतया ज्योतीरूपता विवक्षिता, तत्तद्विषयगोचरतया च व्यापित्वमपि सिद्धम् । अस्मिताकार्ये मनसि समापत्ति दर्शयित्वाऽस्मितास- मापत्ते: स्वरूपमाह -- -तथेति । शान्तमपगतरजस्तमस्तरङ्गम् । अनन्तं व्यापि अस्मितामात्रं न पुनर्नानाप्रभारूपम् । आगमान्तरेण स्वमतं समीकरोति यत्रेति । यत्रेदमुक्तं पञ्चशिखेन । तमणुं दुरधिगमत्वादात्मानमहंकारास्पद मनुविद्यानुचि न्त्यास्मीत्येवं तावजानीत इति । स्यादेतद्-नानाप्रभारूपा भवतु ज्योतिष्मती कथमस्मितामात्ररूपा ज्योतिष्मतीत्यत आह - एषा द्वयीति । विधूतरजस्त- मोमलास्मितैव सत्त्वमयी ज्योतिरिति भावः । द्विविधाया अपि ज्योतिष्मत्याः फलमाइ ययेति ॥ ३६॥
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४४
दिखावट