पातञ्जलयोगसूत्रम् पा. १ सू. २४ ] एतयोः शास्त्रोत्कर्वयोरीश्वरसत्त्वे वर्तमानयोरनादिः संबन्धः । एतस्मादे- तद्भवति सदैवेश्वरः सदैवमुक्त इति । तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मु क्तम्, न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशय स्यात्तदेव तत्स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समान- मैश्वर्यमस्ति, कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिद- मस्तु पुराणमिदम स्वित्येकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रस- क्तम् । द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति, अर्थस्य विरुद्धत्वात् । a योगविशेषाणां च मन्त्राणां च तत्तद्वर्णावापोद्वारेण सहस्रेणापि पुरुषायुपैकि- कप्रमाणव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ । न चागमादन्वयव्यतिरेकौ ताभ्यां चागमस्तत्संतानयोरनादित्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये तत्संतानथोर्विच्छेदात् । न च तद्भावे प्रमाणाभावः । अभिन्नं प्रधान विकारो जगदिति हि प्रतिपादयिष्यते । सदृशपरिणामस्य च विसदृशपरिणामता दृष्टा । यथा क्षीरेक्षुरसादे र्दधिगुडादिरूपा । विसदृशपरिणामस्य पूर्वं सदृशपरिणामता च दृष्टा । तदिह प्रधानेनापि महदहङ्कारादिरूपविसदृश परिणामेन सता भाव्यं कदाचित्सदृश परिणामेनापि । सदृशपरिणामश्चास्य साम्यावस्था । स च महा- प्रलयः । तस्मान्मन्त्रायुर्वेदप्रणयनात्तावद्भगवतो विगलितरजस्तमोमलावरण- तया परितः प्रद्योतमानं बुद्धिसत्त्वप्रकर्षादेव भवितुमर्हति । न च सत्त्वो- त्कर्षे रजस्तमः प्रभवौ बिभ्रमविप्रलम्भौ संभवतः । तत्सिद्धं प्रकृष्ट सत्त्व निमित्तं शास्त्रमिति | स्यादेतत्-प्रकर्षकार्यतया प्रकर्षं बोधयच्छास्त्रं शेषवदनुमानं भवेन्न त्यागम इत्यत आह—एतयोरिति । न कार्यत्वेन बोधयत्यपि त्वनादिवाच्यवाचकभा- वसंबन्धेन बोधयतीत्यर्थः । ईश्वरस्य हि बुद्धिसत्त्वे प्रकर्षो वर्तते, शास्त्रमपि तद्वाचकत्वेन तत्र वर्तत इति । उपसंहरति- एतस्माद् ईश्वरबुद्धिसत्त्वप्रकर्ष- वाचकाच्छास्त्रादेतद्भवति ज्ञायते विषयेण विषयिणो लक्षणात्सदैवेश्वरः सदैव मुक्त इति । तदेवं पुरुषान्तराद्वयवच्छिद्येश्वरान्तरादपि व्यवच्छिनत्ति–तच्च • तस्येति । अतिशयविनिर्मुक्तिमाह – न तावदिति । कुतः -यदेवेति । • कस्मात्सर्वातिशयविनिर्मुक्तं तदैश्वर्यमित्यत आह-तस्माद्यत्रेति । अतिशय निष्ठा- मप्राप्तानामौपचारिकमैश्वर्यमित्यर्थः । साम्यविनिर्मुक्तिमाह न च तत्समान- मिति । प्राकाम्यम विहतेच्छता । तद्विघातादूनत्वम्। अनूनत्वे वा द्वयोरपि प्राका- म्यविधातः कार्यानुत्पत्तेः । उत्पत्तौ वा विरुद्धधर्मसमालिङ्गितमेकदा कार्यमुपलभ्ये · तेत्याशयवानाह–द्वयोश्चेति । अविरुद्धाभिप्रायत्वे च प्रत्येकमीश्वरत्वे कृतम-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३३
दिखावट