श्रीगणेशाय नमः । पातञ्जलयोगसूत्रम् वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् । तत्र समाधिपादः प्रथमः । 'यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधानुग्रहाय प्रक्षीणक्लेशराशिर्विषम विषधरोऽनेकवक्त्रः सुभोगी । सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ॥ १ ॥ अथ योगानुशासनम् ॥ १ ॥ अथेत्ययमधिकारार्थः । नमामि जगदुत्पत्तिहेतवे वृषकेतवे । क्लेशकर्मविपाकादिरहिताय हिताय च ॥ १ ॥ नत्वा पतञ्जलिमृषि वेदव्यासेन भाषिते । संक्षिप्तस्पष्टबह्वर्था भाष्ये व्याख्या विधीयते ॥ २ ॥ इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षाव- त्प्रवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार- अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं व्याचष्टे – अथेत्ययमधिका- रार्थः । 'अथैष ज्योति' रितिवत् न त्वानन्तर्यार्थः । अनुशासनमिति हि शास्त्रमाह–अनुशिष्यतेऽनेनेति व्युत्पत्त्या | न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते- तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत् ( बृ. ४ | ४ | २३ ) इति । शिष्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च संभवेऽपि नाभिधानम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रामाणिकत्वे योगानुशासनस्य तद- १. इलोकोऽयं प्रक्षिप्त इति भूमिकायामुपपादितम् ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१०८
दिखावट