पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पातञ्जलयोगसूत्रपाठः। स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥४४॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ ता एव सबीजः समाधिः ॥ ४६ ।। निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥ ऋतंभरा तत्र प्रज्ञा ॥४८॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥ तज्जः संस्कारोऽन्यसंस्कारणप्रतिबन्धी ॥५०॥ तस्यापि निरोधे सर्वनिरोधानिर्बीजः समाधिः ।। ५१॥ इति पातञ्जलयोगसूत्रपाठे प्रथम. पादः ॥ १॥ अथ पातञ्जलयोगसूत्रपाठे द्वितीयः पादः। तपास्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अनित्याशुचिदु:खानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥ सुखानुशयी रागः ॥७॥ दुःखानुशयी द्वेषः ॥८॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥९॥ ते प्रतिप्रसवहेया: सूक्ष्माः ॥१०॥ ध्यानहेयास्तवृत्तयः॥ ११ ॥ क्लेशमूल: कर्माशयो दृष्टादृष्टजन्मवेदनीयः॥ १२ ॥ सति मूले तद्विपाको जात्यायुर्भोगाः॥ १३ ॥ ते हलादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ हेयं दुःखमनागतम् ॥ १६ ॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥ तदर्थ एव दृश्यस्याऽऽत्मा ।। २१ ॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ तस्य हेतुरविद्या ॥ २४ ॥ तदभावात्संयोगाभावो हानं तदृशेः कैवल्यम् ॥२५॥ विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ तस्य सप्तश प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्याते: ॥ २८ ॥ यमनियमासनप्राणायामप्रत्यहारधारणाध्यानसमाधयोऽष्टाषङ्गानि- ॥ २९ ॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥ शौचसंतोषत्तप:स्वाध्यायेश्वरमणिधानानि नियमाः ॥ ३२ ॥ वितर्कबाधने प्रतिपक्षभावचम् ॥ ३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदु-