सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिः तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
[ भाष्यम् ]
स न प्रमाणोपारोही,
द्विचन्द्रोऽपि पात्रादिषु द्रष्टव्यः । द्वौ चन्द्रौ यस्मिन् दर्शन इति बहुव्रीहिः । एकचन्द्रशब्दस्य अद्विगुत्वादेव चोद्याभावः । सा च पञ्चपर्वा अविद्या; सा विपर्ययवृत्तिरविद्या पश्च पर्वाणि अस्या इति ॥
कानि पुनस्तानीत्याह-आविद्यास्मितेत्यादि । एत एव अविद्यादयः क्लेशाः स्वसज्ञाभिः स्वाभिः शास्त्रान्तरप्रसिद्धाभिस्तमआदिसंज्ञाभिः विशिष्टाः चित्तमलप्रसङ्गेनाभिधायिष्यन्ते द्वितीयपादे ॥ ८ ॥
इदानीं विकल्पं दर्शयति-शब्दज्ञानानुपाती वस्तुशून्यो विकल्प: । - शब्दस्य ज्ञानं शब्दज्ञानम, वाच्यवाचकनियमेन साध्वसाधुशब्दज्ञानं, तदनुपतितुं शीलमस्येति शब्दज्ञानानुपाती । वस्तुशून्य इति ॥ यथावाच्यार्थशून्यः, यस्य शब्दस्य ज्ञानमनुपतति तस्य शब्दस्य यथाभूताभिधेयेन शून्य इति यावत् । यथाभूतार्थव्यतिरेकेण हि विकल्पनं विकल्पः ॥
तस्य हि शब्दज्ञानानुपातित्वादागमान्तःपातित्वं प्राप्तम्, अत आह-- प्रमाणोपारोहीति ॥ न प्रमाणान्तःपाती वस्तुशून्यत्वात् । न ह्यागमस्य शब्दज्ञानानुपातित्वेऽपि वस्तुशून्यता । यतः शब्दार्थविषया वृत्तिरागमः, विकल्पस्तु वस्तुशून्यत्वान्न प्रमाणम् ॥
किञ्च-वक्तृश्रोत्रोश्च तुल्यो विकल्पः । द्वयोरपि शब्दादुच्चरिताद्विकल्प्यैव हि बुद्धिर्जायते । न तथा आगमे ॥ श्रोतुरेव ह्यागम: । वत्ता तु दृष्टानुमितार्थः ।
किञ्च-निर्वितर्कसमापन्नस्य विक्ल्पे निवर्तते नागमः । तस्मान्न प्रमाणोपारोही ॥