पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/384

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४२
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकाचित्तपरिकल्पितं, नाप्यनेकचित्तपरिकल्पितं, किं तु 1खरूपप्रतिष्ठम् । कथम् ? वस्तुसाम्ये चित्तभेदात् ।  घर्मपेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति । अधर्मापेक्षं तत एव दु:खज्ञानम् । अविद्यापेक्षं तत एव मूढज्ञानम् । सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चित्तेन परिकल्पितम् । न चान्याचेत्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः ! तस्माद्वस्तु ज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः । नानयोः संकरगन्धोऽप्यस्तीति ॥

[ विवरणम् ]

पुत्रादिकं साधारणं समानम् । तत् खलु नैकचित्ततन्त्रं भवति । एकचित्ततन्त्रत्वाभावादनेकचित्तपरिकल्पतमपि न भवति ।

 किन्तु स्वरूपप्रतिष्ठं चित्तानिरपेक्षं स्वतन्त्रतया व्यवस्थितम् । कथम् ? वस्तुसाम्ये वस्तुनः पुत्रादेरेकत्वे चित्तभेदात् एकस्मिन् पुत्रादिविषये विषयिणां ज्ञानानामेंनकत्वात् ।  कथं चित्तभेद इत्याह-धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि यथा पुत्रत एव मातापित्रोः सुखज्ञानं भवति । तत एव पुत्रादेः अधमापेक्षं अहितानां दु:खज्ञानं उपजनिष्यते ॥

 तस्मोदवाविद्यापेक्षं कामुकानां मूढ़ज्ञानम् । तत एव पुत्रादेः सम्यग्ज्ञानोपक्षं योगिनां माध्यस्थ्यज्ञानं हेयोपादेयशून्यमुत्पद्यते । कौलेयादीनां तत एव लोभापेक्षया भक्ष्यज्ञानम् । तत एव पुत्रादेर्विरक्तस्य कुणपादिज्ञानम् ।

 यदि कस्यचिच्चित्तेन परिकल्पितमभविष्यत् (न) अन्यचित्तपरिकल्पितेनान्येषां चित्तमुपारंक्ष्यत । नैतद्युक्तं, अत्यन्तासम्बद्धानामदर्शनात् । यदि चान्यपरिकल्पितेनाप्यन्यचित्तोपरागोऽभविष्यत्, तदा सर्वेऽपि सर्वै समज्ञास्यन्त । न चेदं दृष्टम् । तस्मात् न चित्तपरिकल्पितं वस्त्विति, वस्तुज्ञानयोः ग्राह्यग्रहणभेदाद्भिन्नयोर्विविक्त्तः पन्थाः । नानयोः सङ्करगन्धोऽप्यस्ति ॥


1. स्वप्र