पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/353

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यमू ]

 स खल्वयं कालो वस्तुशून्यो१' बुद्धिनिर्माणः शब्द°धर्मानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाभासते ॥

 क्षणस्तु वस्तुरूपः3 क्रमावलम्बी । क्रमश्च क्षणानंन्तर्यात्मा ।

[ विवरणम् ]

 यस्य तु क्रियाव्यतिरिक्तः कालः नित्यो विभुः, तस्य चिरक्षिप्रत्वाद्यपि क्रियामात्रे पर्यवसितत्वात् पृथक्कालास्तित्वे न लिङ्गं घटते । नियतपरिमाणा हि क्रिया अनवगतपरिमाणायाः क्रियाया लक्षणमू । यथा आ गोदोहनं स्वपति । आ ओदनपाकमधीते इति । स एव च कालः । न हि नित्यस्य विभोः तस्य कूटस्थस्य असम्बन्धत्वात् वस्त्वन्तरपरिच्छेदकत्वं प्रस्थादिवदुपपद्यते ॥

 क्रियावान् कालः परिव्छेदकः प्रस्थादिवदिति चेत्, तस्यापि क्रियावत्वात् क्रियावतश्च परिच्छेदनीयत्वादन्येन क्रियावता परिच्छेदकेन कालेन भवितव्यम् । तस्याप्यन्येनेत्यनवस्थाप्रसङ्गः क्रियावत्त्वाच्चानित्यत्वमपि प्रसज्येत ॥

 अथ स्वव्यापारेणैव काल: परिच्छेदनीयकं यायादिति चेत्। अन्येऽपि स्वव्यापारेणैव परिच्छेद्या इति कालपृथक्त्वकल्पना निरर्थिका । तथा च क्रियैवास्तु कालः ।

 अथापि सद्भावमात्रेण कालः परिच्छेदक इति, सर्वेषामपि सद्भावाविशषादेवं प्रसक्त्तम् ।

 क्रियाकालपक्षेडप्येष विकल्पः प्राप्त इति चेत्-न, क्रियायाः सर्वप्रसिद्धत्वात् । परिच्छेदकत्वस्य च आ गोदोहमास्ते इत्यादिषु सिद्धत्वात् क्रियैव परिच्छेदिका लभ्यते, नापरः काल: परिच्छेदक इति । चिरं क्षिप्रमिति च प्रयत्नमन्दिमपाटवकृतः प्रत्ययो न व्यतिरिक्तकालनिबन्धन इत्याह-स खल्वयं कालः संवत्सरादिरूपो वस्तुशून्यो बुद्विनिर्माणः बुद्धया निर्मापिष्यते ॥

 शब्दधर्मानुपाती त्रुटिनिमेषाहोरात्रादिशब्दविकल्पानुप्रवर्ती । लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाभासते । क्षणस्तु वस्तुरूपः वास्तविकः'४ तदूद्रव्यान्यथात्वेनानुमीयमानः क्रमावलम्बी | क्रमश्च क्षणानन्तर्यात्मा क्षण-- प्रवाहविच्छेदबुद्विनिमित्तः ॥


1, -न्योऽपि 2. ज्ञानानु- 3. वस्तुपतित: 4. अत्र आदर्शकोशे इत उपरि ‘अन्तराभाव:” इत्यादि वाक्यं लिखितम् । तस्यानन्वयात्, 20. पुटेभ्यःपूर्वे लिखितं **तद्द्रव्यान्यथात्वेन?? इत्यादिवाक्यं योजितम्॥