[ सूत्रम् ]
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५ ॥
[ भाष्यम् ]
सर्वप्राणिनां भवति ॥ ३५ ॥
[ सूत्रम् ]
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥
[ भाष्यम् ]
धार्मिको भूया इति भवति धार्मिकः । स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति । अमोघाऽस्य वाक् भवति ॥ ३६ ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ।।
[ भाष्यम् ]
सर्वदिक्स्थानि अस्योपतिष्ठन्ते रत्नानि ॥ ३७ ॥
[ विवरणम् ]
मिति । तदेतत्प्रतिदर्शयति-तद्यथा-अहिंसाप्रतिष्ठायाम् अहिंसास्थिरत्वे अवितर्कप्रादुर्भावे । तत्सन्निधौ वैरत्यागः । शाश्वतिकविद्वेषिणामपि सर्पनकुलादीनां तस्य अहिंसकस्य सन्निधौ 1वैरत्यागो भवति ॥ ३५ ॥
सत्यप्रतिष्ठायां सत्यस्थैर्ये क्रियाफलाश्रयत्वं यज्ञादिक्रियाफलानामागमनं प्राप्तिर्भवति । सत्यवादिवाक्यादिति शेषः । कथम् ? अधार्मिकोऽपि धार्मिको भूया इत्युक्ते तद्वचनाद्धार्मिको भवति । यथा धर्मेऽस्य रमतां मन इति देवैरुक्तः 2कुण्डधाराराधी ब्राह्मणो धार्मिको बभूव। तथा स्वर्गप्राप्नुहीत्युक्तः स्वर्गं प्राप्नोति। यथा विश्वामित्रेणोक्तः स्वर्गं प्राप्नुहीति त्रिशङ्कु स्वर्गं प्राप । किं बहुना । अमोघाऽस्य वाक् भवति ॥ ३६ ॥
अस्तेयप्रतिष्ठायां अस्पृहायाम् । ततः किमस्य भवति ? रत्नोपस्थानं भवति सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि आत्मानं दर्शयन्ति ॥ ३७ ॥
1. अत्र आदर्शकोशे 'वैर' इत्येतदुपरि 'मपश्यन्' इत्यादि अत्र (223) पुटे मुद्रितं वाक्यं दृश्यते । तस्यानन्वयात् , आदर्शकोशे पुटत्रयात् पूर्वलिखितं “त्यागो भवति” इत्यादिवाक्यं योजितम् ।
2. कुण्डधारोपाख्यानं भारते शान्तिपर्वान्तर्गतमोक्षधर्मपर्वणि 27!- अध्याये दृश्यते ।