पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/138

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
समाधिपादः प्रथमः



[ माष्यम् ]

सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः । एकप्रत्ययिविषयोऽयमभेदात्मा अहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्यायेनमाश्रयेत । स्वानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः ।

[ विवरणम् ]

 इति युक्तम् । असतां शविषाणादीनामुत्पत्त्यभावात् । असतां चेदुत्पत्तिः स्याद्वास्यवासकयोर्विनष्टत्वादविद्यमानत्वाविशेषे वासकद्रव्याननुविधायेि नोत्पद्येत । अन्यद्वा हस्तादि ॥  यदि वा, अत्यन्तासदेव शशविषाणाद्युत्पद्येत । अतो विशिष्टं हि त्रयाणामसत्त्वं वासिते बीजे । तस्मादवस्थितं कारकं भूतभविष्यत्कालानेकवृत्तियोगिचाभ्युपगन्तव्यम् । अन्यथा प्रत्ययमात्रं क्षणिकं चित्तमिति समर्थेयमानस्य समाधीयमानमपि (समर्थ्यमानमपि) गोमयपायसीयन्यायमाक्षिपति

 यथैव बहुभिरपि गोविकारत्वादिहेतुभिः समीहमाने कृताटोपेनापि गोमयं पायसकर्तुं न शक्यम्, तथा क्षणिकेन चित्तेन स्मरणादि समर्थयितुम् ॥  किञ्च--स्वात्मानुभवापह्नवः चित्तस्यान्यत्वे प्रत्ययमात्रत्वे नान्यदृष्टमनुस्मरतीति स्वात्मनानुभूतमपह्नुवीत ॥

 किं त्वमद्राक्षीरित्युक्तो दृष्टवानपि नाहमद्राक्षमिति ब्रुवीत । अन्येन हि तत्पक्षे तत् दृष्टं दृश्यते । तदपह्नवे चानुभूतस्य प्रतिपत्तिः कथम् ? ‘यदहमद्राक्षं तत् अहमेव स्पृशामि’ ‘यदहमस्प्राक्षं तत् अहमेव स्मरामि’ इति । सैषा प्रत्ययस्मरणयोरेककर्तृत्वे सति घटनामुपढौकते प्रतिपत्तिः । अन्यथा मत्सदृशो यदद्राक्षीत्तत्सदृशोऽहं तं स्पृशामीति स्मरामीति च स्यात् । सर्वस्य पुरुषस्याहमिति प्रत्ययः स्मृतिप्रत्यययोरेकस्मिन् कर्तरॆि वर्तमानः प्रत्ययभेदे पश्यामि स्पृशामि स्मरामीत्यादिप्रत्ययभेदे सति तेषां च प्रत्ययानामेकस्मिन् कर्तरि प्रत्ययिन्यभिन्ने चोपस्थितः प्रत्यक्षश्च ॥

 नन्वेकप्रत्ययविषय एवान्यः स्मृतेरेकत्वेऽपि कर्तुरहं प्रत्येमि स्मराम्यहमिति च न भवितव्यं, प्रत्येता स्मर्तेति शब्दभेदाद्भेद एव । तत्राह-न-प्रत्यक्षत्वात् । तदेव दर्शयति--स्वानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः ॥