पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५२ काव्यमाला।

प्रसादपात्रं पीनांसः कंसाख्यो मम सारथिः ।
भङ्गुरं बलमालोक्य रथात्तूर्णमवातरत् ॥ ६८ ॥
रथं सिंहरथस्यासौ जितशत्रुपराक्रमः ।
भुजदम्भोलिना भूभृद्गर्वचौरमचूर्णयत् ॥ ६९ ॥
मयूरबन्धनं बद्धा ततः सिंहरथो रथी।
मन्मानसैकहंसेन कंसेनाक्षेपि मे पुरः ॥ ७० ॥
ततो विषस्वसुस्तस्या दुहितुर्मगधेशितुः ।
असौ सिंहरथानेता परिणेतास्तु संप्रति ।। ७१ ।।
उवाच श्रीसमुद्रोऽथ समुद्रविजयो वचः ।
गतापायमुपायं मे मनोहरमुदाहर ।। ७२ ॥
परं पुरा वणिक्पुत्रस्त्वयासौ प्रतिपादितः ।
तदस्मै वणिजे पुत्रीं जरासन्धो न दास्यति ॥ ७३ ॥
इति जल्पत एवास्य कंसः सेवार्थमागमत् ।
वसुदेवश्च तं राज्ञे कंसोऽसावित्यचीकथत् ॥ ७४ ॥
तेजः साक्षादिव क्षात्रं तमूर्जस्विभुजार्गलम् ।
प्रांशुमांसलमालोक्य नृपतिः पुनरभ्यधात् ।। ७५ ॥
इत्यद्भुतोऽयमाकारः सुलभो न वणिक्कुले ।
ततोऽस्य पितरं दृष्ट्वा क्रियते कुलनिर्णयः ॥ ७६ ॥
अथाहूय महीभर्त्रा पृष्टः शपथपूर्वकम् ।
सुभद्रः सत्यमाचख्यौ सर्वं कंसस्य पश्यतः ।। ७७ ॥
यमुनायामनुस्रोतो वहन्तीमहमेकदा ।
अपश्यं कांस्यमञ्जूषां प्रातः शौचार्थमीयिवान् ।। ७८ ॥
आदाय तामथोत्पाट्य पार्वणेन्दुसमाननम् ।
उच्छृङ्खलप्रभाजालमिममालोकयं सुतम् ॥ ७९ ॥
उग्रसेनस्य नामाङ्कामेतां च मणिमुद्रिकाम् ।
एतच्च पत्रमत्रेदं लिखितं वाच्यते यथा ॥ ८० ॥

युग्मम् ।