पृष्ठम्:पद्मिनीपरिणयः.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये चतुर्थोऽङ्कः

पद्मि-(सम्भ्रान्ता तिष्ठति)

भ्रम-इदो वरं अहं एत्थ ठिदा जदि तुम्हाणं अणहिमदा भविस्सम् । (इतः परं अहमत्र स्थिता यदि युवयोरनभिमता भविष्यामि) (इति मन्दमपसरति )

पद्मि-हळा ! किं गच्छेसि मे एआइणिं विसज्जिअ । (किं गच्छसि मामेकाकिनीं विसृज्य)

भ्रम-पिअसहाआ खु होदी । मए किंकादव्यम् ? अथ्थि भअवतीए समप्पिअं सव्वं पुष्पादिअं वथ्थुजाअम् । (प्रियसहाया खलु भवती, मया किं कर्तव्यम् । अस्ति भगवत्यै समर्पितं सर्वं पुष्पादिकं वस्तुजातम्) । (इति निष्क्रान्ता )

भास्क-(कण्ठादवमुच्य मालां पद्मिनीग्रीवायामर्पयति) ।

पद्मि-जणकवसो हि एसो जणो । (जनकवशो ह्येष जनः)

भास्क-प्रिये ! तदीयाशयोऽस्मदनुकूल इति विदितमेव । (इति पाणिं गृह्णाति)

पद्मि-(धून्वतीव) जीमूतस्स मं विदरिदुं पवट्टइ खु सो । (जीमूताय मां वितरितुं प्रवर्तते खलु सः) ।

भास्क-तत्र भवान् शारदानन्दः स्वोपायेन जीमूतं प्रतारयिष्यतीति प्रत्ययेन ।

(इति वसनाञ्चलं गृह्णाति)

पद्मि-(मोचयन्तीव)

भास्क-भद्रे ! तव वदनकमले कोऽयं केतकीपरागः ? (इति सफूत्कारं चुम्बितुं प्रवर्तते) ।

पद्मि-(मुखं परावर्तयति ) ।

भास्क-प्रेयसि ! सन्ध्याकालात् पूर्वमेव प्रतीचीसङ्गस्तूर्ण कार्य इत्येव चन्द्रः आवेगेन स्रंसमानांशुको[१] द्राक् धावति । आवां नो विलम्बं विदध्वः ।

देव्यै समर्पिततया रुचिरं निकामं
भुक्त्वाऽद्य भज्यमुचितञ्च निपीय पेयम् ।
माल्यानुलेपनधरापयोज्य वीटी-
मन्योन्यमत्र मुदितौ शयनं भजावः ॥

(इति निष्क्रान्तौ)

॥ इति पद्मिनीपरिणये गान्धर्वविवाहो नाम चतु्र्थोऽङ्कः ॥

  1. स्रंसमानांशुकः, निमाश्रिषः
47