कलभस्तं बलाद्गृह्णन् हन्तुं प्रारभतानघम् ।
हिमानी तत्र साऽगत्य तमूचे कलभं वचः ॥ ५५ ॥
'भैरव्या द्राक् प्रसादार्थं व्रतमाचर्यते मया ।
अन्ते तस्यै बलिर्देयो युवा च युवतिर्मया ॥ ५६ ॥
निर्दिष्टा युवती काचित् युवाऽसौ दीयता'मिति ।
तदङ्गीकृत्य कलभः कारावेश्मनि तं न्यधात् ॥ ५७ ॥
ततो मिलिन्दो वित्रस्तः स्वपुरं प्राप्य सत्वरम् ।
कासाराय स तत्सर्वं विस्तरेण न्यवेदयत् ॥ ५८ ॥
स शोचन् भास्करं साकं प्रियासहितमाह्वयत् ।
आयाति तस्मिन् प्रेयस्या हिमानीप्रेरितं महत् ॥ ५९ ॥
भूतं तां पद्मनीं जह्ने तिरोभूतस्वरूपकम् ।
ज्ञात्वा तदपि कासारो व्यषीदन्नितरां जनैः ॥ ६० ॥
हिमानी भैरवीं कालीं ताभ्यां प्रीणयितुं द्रुतम् ।
आरेभे प्रथमं हन्तुं पद्मनीं खड्गपाणिका ॥ ६१ ॥
उपासरत् तदा लक्ष्मीं शरणं सा ह्यमन्यत ।
श्रीर्भक्तरक्षणे व्यग्रा द्रुतं तं भास्करं स्वयम् ॥ ६२ ॥
अनैषीत्तत्र स श्रीमान् खड्गे पतति तद्गले ।
आचकर्ष प्रियां शीघ्रं गृहीत्वा करयोर्द्वयोः ॥ ६३ ॥
हिमानी भास्करं दृष्ट्वा भीता दुद्राव सत्वरम् ।
भैरव्या क्रुद्धया सृष्टा बहवः फणिनोऽद्भुताः ॥ ६४ ॥
पश्यन्त्यां गगनं लक्ष्म्यामाविर्भूतः खगेश्वरः ।
तानभञ्जयदत्युग्रदंष्ट्राग्रेण महाजवः ॥ ६५ ॥
कासारपुत्रौ सन्दष्टुं प्रवृत्तान् विस्तृताननः ।
अथ सा भैरवी भीमं रक्षोगणमवासृजत् ॥ ६६ ॥
पश्यन्त्यां गगनं लक्ष्म्यामाविर्भूतः कपीश्वरः ।
राक्षसांस्तान् जघानाशु लाङ्गूलेन महामहाः ॥ ६७ ॥
भैरवी स्वयमेवैतान् भीमरूपा जिघांसया ।
अभिदुदाव कारुण्यपरिपूर्णा हरिप्रिया ॥ ६८ ॥
पृष्ठम्:पद्मिनीपरिणयः.pdf/१६
दिखावट
पुटमेतत् सुपुष्टितम्
15