यदिह जलरुहं मां दृष्टमात्रं प्रियाया
वदनमतिमनोज्ञं स्मारयद् द्रागधिन्वीत् ।
अहह तदपि वाणीभूय तस्मिन् क्षणेन
स्मरधनुषि मनो मे विध्यतीव क्व यामि ।।
अरु– वयस्य ! विपन्निकष एव परीक्ष्यते पुरुषस्य धैर्यतपनीयोत्कर्षः ।
भास्क-
अत्यन्तभीषणतमःक्षितिभृत्क्षणेन
यत्तेजसि स्फुरति धावति दृष्टिमार्गात् ।
यस्याशनिप्रतिभयादपि भीर्न मेघात्
तं मां च कातरमहो तमुते स्मरास्त्रम् ।।
हा सखे !
रम्यं वस्त्वपि लोचने स्फुरति मे कल्पान्तकालोपमं
श्राव्या अप्यतिचारवोऽत्र हि रवाः कर्णे गगणीव मे ।
धात्रा यत्सुकुमारमस्त्विदमिति प्रीत्या स्वयं निर्मितं
तन्सर्वं विरहेऽन्यथा विदधतं किं ब्रूमहे मन्मथम् ।।
अन्तर्हितो में दयितां विनाशय तां पद्मिनीं क्वाद्य सखे मदान्धः ।
स कालगन्धद्विरदो वद त्वं भिनद्मि कुम्भं स्वकरेण तस्य ॥
( इति धावति ! )
अरु-हृा ! वयस्योऽयमुन्मादं प्रापितः स्मरेण ( इति निवारयति ) ।
भास्क-मुञ्च सखे !
अरु-संस्तभ्यतां हृदयम् |
भास्कः--
आशाः प्रसाधयतु नैकविधा वृधानां
कृत्वा तमोहतिमयं वसुमञ्चयो मे ।
यो मीलनं स्वयमरुन्ध न मत्प्रिायायाः
श्रीनित्यवासवसतेरधुना धिगंनम् ॥
सखे ! पश्य पश्य ।
आयाति गच्छति निषीदति तत्क्षणेन
प्रोत्थाय तिष्ठति दिशो दश सम्भृतास्रम् ।
100