पृष्ठम्:पद्मिनीपरिणयः.pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः

कासा-को विशेषः किंवदन्त्याम् ?

चारः-जीमूओ अग्गिगोळेहिं धज्जइत्ति सुणीअदि । (जीमूतः अग्निगोळैर्दह्यत इति श्रूयते) ।

कासा-सखे ! यदि जीमूतः स्यान्निहतः कुतो विळम्बते वत्सः सख्या ?

विदू-कमेण णादव्वम् । ( क्रमेण ज्ञातव्यम् ) ।

कासा-रे, एतावदेव ?

चारः–अह इम् । (अथ किम्) ।

कासा-गम्यताम् । स्वनियोगः अशून्यः क्रियताम् ।

चारः-(निष्क्रान्तः) ।

कासा-कथमग्निगोळदाहो जीमूतस्य ?

विदू–को मुणइ जोइणो उवाअम् ? (को जानाति योगिन उपायम् ?) ।

प्रतिहारी- । (प्रविश्य) देव्व. मिळिंदो पाडेहारभूमिं गओ । (देव, मिळिन्दः प्रतिहारभूमिं गतः) ।

कासा-( ससंभ्रमम्) तूर्णं प्रवेश्यताम् ।

प्रति-(निष्क्रम्य प्रविश्य मिळिन्देन सह् ) इदो इदो (इत इतः) ।

कासा-भद्र ! किं कुशली तव सखा ?

मिलि–कुशलीव !

कासा-( स्वगतम्)

व्यनक्तयस्य मुखं हर्षं व्यथालेशेन मिश्रितम् ।
वचनं च तथा पश्यन् शृण्वंस्तत्कातरोऽस्म्यहम् ॥
(प्रकाशम्) भद्र ! किं प्रतिपन्नं जीमूतेन)

मिलि-यद्रामभद्रकळत्रं कामयमानेन दशाननेन ।

कासा-भद्र ! स हन्तव्यं स्वेन मत्तेभमहत्वाऽप्युपरतः ?

मिलि-हत्वैव !

कासा-भद्र ! तथा द्वावपि विनष्टौ यदि, वासः क्व वर्तते, कीदृशः ?

83