पृष्ठम्:पतञ्जलिचरितम्.djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः ]
६३
पतञ्जलिचरितम् ।

तत्र स्थितेन कथितां यमिनां गणेन
गोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ६३ ॥

तस्याः प्रपन्नपरितोषदुहो गुहायाः
स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जपतां पुरोगं
तुष्टाव तुष्टहृदयस्तम[१]पास्तशोकम् ॥ ६४ ॥

पर्यङ्कतां भजति यः पतगेन्द्रकेतोः
पदाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मौलिधृतिसार्णवशैलभूमेः
शेषस्य विग्रहविशेषमहं भजे त्वाम् ॥ ६५ ॥

दृ[२]ष्ट्वा पुनर्नेिजसहस्रमुखीमभैषु-
रन्तेवसन्त इति तामपहाय भूयः ।
एकाननेन भुवि यस्त्ववतीर्य शिष्या-
नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥ ६६ ॥

तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं ।
दिष्ट्या स[३]मधिपथरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच तदा स[४] वाग्भिः
प्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥ ६७ ॥

खामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनोन गगनं न च तद्गुणा वा ।
नापिन्द्रियाण्यपि तु बुद्धि ततो विशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥ ६८ ॥



  1. 'अपास्तचेत्यम्' क.
  2. 'दृष्ट्वा पुरा निजसहस्रमुखीम्' ख.
  3. समाधिपथरूढि ख.
  4. ‘स वाग्मी प्राचीनपुण्यजनितं भुवि बोधचिह्नैः' ख.