पृष्ठम्:पतञ्जलिचरितम्.djvu/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
काव्यमाला

[१]म्भोजकाननमहोत्सवलक्षणानि
शीतांशुकान्तिशिथिलीकृतिसूचकानि ।
तावन्निशम्य चरणायुधकूजितानि
शय्यामहो परिजहार न जारयुग्मम् ॥ ४८ ॥

सर्वां निशामपि विनीय विमुक्तनिद्रा
संकेतितादपसृतापि तदा निकुञ्जात् ।
वामेन हन्त नयनेन चलेन किंचि-
ज्जाराङ्गना सरभसं विनिवर्तते स्म ॥ ४९ ॥

राज्ञोऽवरोधभवनेषु कवाटिकाना-
मुद्घाटनादजनि यद्ध्वनितं तदानीम् ।
कामागमस्य गणनावसरे वधूनां
ज्यायाननध्ययनहेतुरयं बभूव ॥ ५० ॥

सर्वात्मना व्यपसृतं न यदा तमिस्रं
मन्दं तदा स्पृशति गन्धवहेऽङ्गमङ्गम् ।
नाथागमात्प्रथमतो नलिनी दधाना
वक्त्रे विकासमपि कम्पितमूर्तिरासीत् ॥ ५१ ॥

पुष्पंधयीविकसितात्कियदुत्पतन्ती
नालीककुड्मलमुखान्नलिनाकरस्य |



  1. 'अम्भोजकाननमहोत्सवलक्षणानि
    शीतांशुकान्तिशिथिलीकृतिसूचकानि ।
    आविर्भवन्ति मिथुनश्रुतिदुःसहानि
    कुक्कूरुतानि चरणायुधकण्ठनालात् ॥'
    इति श्रृङ्गारतिलकभाणे.