प्रविष्टनाभीबिलमन्मथोरगस्फुटेन्द्रनीलोद्गतकान्तिकन्दलैः ।
अभिन्नया मेचकरोमलेखया कृशेऽवलग्ने कृतरामणीयका ॥ ११ ॥
विलो[१]चनान्याक्षिपता विलासिनां सलीलमन्यत्र समर्पितान्यपि ।
कलेन काञ्चीरणितेन बिभ्रती मनोजपीठं जघनस्य मण्डलम् ॥ १२ ॥
युवप्रपञ्चे युगपत्समुज्झितुं श[२]रान्कराभ्यामपि शम्बरारिणा |
निषङ्गयुग्मं निदधे यदार्जितं तदेव जङ्घाकपटेन बिभ्रती ॥ १३ ॥
तरङ्गवेगेन तटान्तमागतैः स्थलारविन्दं यदि सिन्धुमौक्तिकैः ।
वृताञ्चलं कैरपि तेन बिभ्रती कृतोपमानौ चरणौ नखोज्ज्वलौ ॥ १४ ॥
कलक्वणत्काञ्चननूपुरोज्ज्वलं समाह्वयन्तं सहसेव मन्मश्रम् ।
अलक्तकश्रीजितरक्तसंध्यकं पदक्रमं चारु शनैर्वितन्वती ॥ १५ ॥
ततः सपात्रं नवनीतमङ्गना धरातले तस्य निधाय पार्श्वतः ।
प्रणम्य बद्धाञ्जलिरित्थमर्थयांबभूव भक्तिप्रतिपन्नया गिरा ॥ १६ ॥
बुधेन्द्र पूर्वं बहवस्तपोधनाः फलाम्बुदर्भाजिनबर्हिरर्पणैः ।
मया कुमार्या परितोषिता भृशं प्रसादसर्वस्वमिदं वचोऽवदन् ॥ १७ ॥
इहागमिष्यत्यखिलं पतञ्जलेरधीत्य भाष्यं किल कश्चन द्विजः।
तदीयशिष्यादचिरेण रक्षसः प्रणम्य तं पूजय पद्मलोचने ॥ १८ ॥
प्रचारयिष्यन्कृतिमात्मन: स्वयं पतञ्जलिस्तद्वपुषाभवद्भुवि ।
स पूजितस्त्वां परिणीय कन्यकां ग[३]रीयसि श्रेयसि वर्तयिष्यति ॥ १९ ॥
इतीरितां योगिजनेन शृण्वती गिरं द्विजं तं मृगयेऽधुनाप्यहम् ।
स चेद्भवाञ्जन्म कृतार्थमेव मे त्वयि प्रसन्ने किमु दुर्लभं मया ॥ २० ॥
गिरां प्रपञ्चैरथवा किमीदृशैः पुनाति ते दर्शनमेव देहिनः ।
तथापि भोक्तुं नवनीतमाहृतं मया प्रसादं कुरु दृश्यसे श्रमी ॥ २१ ॥