धर्मवारिकणकन्दलद्रवद्भस्मपुण्ड्रपरिकर्मितालिकम् ।
कण्ठलम्बितहराक्षमालिकाच्छेदकीर्णमणिहारि किंकरम् ॥ ६८ ॥
मध्यसीम्नि गलिताहिबन्धनव्याकुलद्विरदचर्मकक्ष्यकम् ।
पादताडितधरातलक्रमप्रोन्मिषत्पटपटायिताकुलम् ॥ ६९ ॥
मण्डलभ्रमिषु कीर्णजाह्नवीशीकरस्रपितचक्रवालकम् ।
बाहुवेगपवनाभिपूरितक्रन्ददन्तरदिगद्रिकन्दरम् ॥ ७० ॥
उद्धृतैकचरणाम्बुजप्रभासृज्यमानपरिवेषविग्रहम् ।
उत्पलोदरसहोदराम्बिकालोचनान्तवलनैकगोचरम् ॥ ७१ ॥
शाम्बरीयवनिकामथाक्षिपन्सप्रपञ्चमयनर्तनं शिवः ।
द्रागदर्शयत गोणिकासुतं व्याघ्रपादमितरानृषीनपि ॥ ७२ ॥
तेन ते स्वयमिदं जगन्मृषा जानते स्म परमार्थतः पुनः ।
ब्रह्म तत्परमनादि सच्चिदानन्दलक्षणमनन्तमद्वयम् ॥ ७३ ॥
इत्यवेक्ष्य नटनं जगत्पतेर्भक्तिभारलुलितेन चेतसा ।
तुष्टुवुस्तमखिलाः शरीरिणः श्रेयसा स समयोजयच्च तान् ॥ ७४ ॥
- नृत्तं तत्फणिपतये स दर्शयित्वा
- प्राहेदं प्रणयकिरा गिरा गिरीशः ।
- त्वं कृत्वा भुवि पदशास्त्रवार्तिकानां
- भाष्यं तद्विवृणु ततो दिवं व्रजेति ॥ ७५ ॥
- नृत्तं तत्फणिपतये स दर्शयित्वा
- आज्ञाप्यैवं फणिनमपरान्सोऽनुगृह्याक्षिपातै-
- र्गौर्या साकं विधिहरिगणैश्चापि शंभुस्तिरोऽभूत् ।
- हर्षाश्चर्यस्तिमितहृदयौ व्याघ्रपाद्गौणीकेया-
- वस्तूयेतामृषिभिरनटद्यत्कृते चन्द्रचूडः ॥ ७६ ॥
- आज्ञाप्यैवं फणिनमपरान्सोऽनुगृह्याक्षिपातै-
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते चतुर्थः सर्गः