पृष्ठम्:पतञ्जलिचरितम्.djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
१७
पतञ्जलिचरितम्।

कटिबद्धमृगादनत्वचं कपिलोन्नद्धजटाभरं मुनिम्
तमवेक्ष्य तरक्षवो वने न पलायन्त न चाभिचक्रमुः ॥ ३४ ॥

चटुलाक्षमुदञ्चिताननं चलवालाञ्चलमीषदन्तरम् ।
कुतुकेन कुरङ्गशावकास्तमृषिं ज्ञातिमिवानुदुद्रुवुः ॥ ३५ ॥

कपयस्तदवेक्षणे तरून्व्यथयामासुरसाधुभिः पदैः ।
पदशास्त्र इवानधीतिनः कवयः कर्णपथान्विपश्चिताम् ॥ ३६ ॥

तमवेक्ष्य नि[१]निन्दुरुच्चकैरपदे पक्कणकुक्कुराः पथि ।
सरसस्य कवेः क्रमं गिरामवकर्ण्याक्षमयेव दुर्धियः ॥ ३७ ॥

ददृशे किल तेन गच्छता गिरिनद्यां कलहंसमण्डली ।
कियदप्यसृगुक्षिता तनौ गिरिशस्येव कपालमालिका ॥ ३८ ॥

अचलोर्ध्वतलादवस्थितं निपतन्तं स ददर्श निर्झरम् ।
रविरश्मिजिता कृतं ध्वजे विपिनेनेव दुकूलपल्लवम् ॥ ३९ ॥

कठिनोपलघट्टनोत्थितान्पतितान्निर्झरपाथसां कणान् ।
चलितानविशेषतोऽग्रहीच्चमराणामपि वालधीन्मुनिः ॥ ४० ॥

निबिडोपलगर्तनिःसरत्फणिफूत्कारभियापसर्पिणः ।
हरिणा नयनैः समाकुलैः पदवीमुत्पलिनीं मुनेर्व्यधुः ॥ ४१ ॥

ज्वलितारुणपल्लवानल[२]श्चिरिबिल्वप्रसवैकलाजया ।
अचलस्य करग्रहोत्सवो वनलक्ष्म्येति विनिश्चिकाय सः ॥ ४२ ॥

मधुरध्वनयो मधुव्रता मदनिष्यन्दमलीमसे पथि ।
अवदन्मुनये निरक्षरं द्विपमासन्नसरोवगाहिनम् ॥ ४३ ॥

तरुमूलविहारिणो दरीभुवि भल्लूकगणानजीगणत् ।
मृडकण्ठरुचीन्वनश्रियः कचभारानिव जङ्गमान्मुनिः ॥ ४४ ॥



 
  1. ‘ननद्रुरुच्चकेः’ इति ख-पुस्तके; ननर्दुरुच्चकैः’ इति भव्यः पाठो भवेत्.
  2. चिरिबिल्वप्रसवैकरम्यया' क.