सव्याख्यभ ! R निलमुको, निल्यसदूपो नित्यमद्वयरूप इति। तथा च शुद्धवादीनां कादाचित्कर्व निरस्तम् । एतादृशचिदात्मरूपस्य, इष्यमाणावे हेतुं दर्शयतिपरमेति तस्य पूर्णतां दर्शयति वासुदेघ इति ॥ सर्वलासौ समस्तै च वसल्यत्रति वै यनः । ततस्स वासुदेवेति विद्वद्धिः परिपठ्यते ॥ ईति विष्णुपुराणवचनात्तस्य पूर्णत्वार्थकत्वादिल्यर्थ: परमानन्दसन्दोहश्वासौ वासुदेवश्चति समानाधिकरणसमासः । अनःदमन्दोहरूपत्वं च सर्वेषामानन्दानां ब्रह्मानन्देऽन्तर्भावादिति द्रष्टध्यम् । वासुदेवस्य प्रणवाथैत्वात् प्रणवाभिन्नत्वादोमित्यस्य तद्वाचकवासुदेवादिशब्दै: सामानाधिकरण्यं द्रष्टयम् । अथवा पूर्वाधॉक्तस्य महावाक्यार्थस्य स्वानुभवेनाङ्गीकारार्थी वा ओर्मिति ॥ एवै शब्दानुविद्धसंप्रज्ञातसमाधिमुक्त्वाऽसंप्रज्ञातसमाधि वक्तुं संप्रज्ञातसमाधिरूपवृतिविलयप्रकारमन्ह - ज्ञात्वा 'विवेचित चित्त तत्साक्षिणि विलापयेत्।। ५१ ॥ ज्ञात्वेति । बहुकालं संप्रज्ञातसमाधौ स्थित्वेल्यर्थः । तत्साक्षिणीति । विवेचकचित्तसाक्षिणील्यथैः ॥ ५१ ॥ इदानीमसंप्रज्ञानसमाधिमाई चिदात्मनि विलीनं °चेत्तचितं न विचालयेन् । पूर्णधीधात्मनाऽऽसीत पूर्णाचलसमुद्रवत् ।। ५२ ।। चिदात्मनीति । पुनः किं कुर्यादिल्यात आह-पूर्णेतेि । तत्र दृष्टान्तमाड्- पूर्णेति । न चलतील्य वलः ! पूर्णः अचलश्च योऽर्यै समुद्रः तद्वदासीनेल्यर्थ: ॥ ५२ । }. विवेचन . 2 च तस्विले
पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/35
दिखावट