पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४.लब्ध- आस्तां तावकिमन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापिघ्नन्ति पुत्रं स्वकं रुषा ! ॥५७॥ रक्षायां स्रेहसद्भावं, कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत् ।। ५८॥ मकर आह-'भो मित्र ! अस्त्वेतत् , परं किं करोमि? ममानर्थद्वयमेतत्सातम् । एकस्तावद्गृहभङ्गः, अपरस्त्वद्विधेन मित्रेण सह चित्तविश्लेषः । अथवा भवत्येवं दैवयोगात् । उक्तञ्च यतः- यादशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाऽभूज्जारो न भर्ता च कि निरीक्षेसि नग्निके ! ॥ ५९ ।। वानर आह-कथमेतत् ? । मकरोऽब्रवीत् - ८. हालिकवधूशृगालिकावञ्चककथा कस्मिश्चिदधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । साच हालिकार्या पत्युर्वृद्धभावात्सदैवाऽन्यचित्ता न कथञ्चिगृहे स्थैर्यमालम्बते-केवलं परपुरुषानन्वेषमाणा परिभ्रमति । अथ केनचित् परवित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च- 'सुभगे! मृतभार्योऽहं, त्वदर्शनेन स्मरपीडितश्च, तबीयतां मे रतिदक्षिणा।' अन्येन दौरात्म्येन दुष्टत्वेन वर्णितेन किम् ?-एकमेव निदर्शनमलं, यत्-स्वार्थ- सिद्धये रुषा स्व पुत्रमपि घ्नन्तीति ॥ ५७ ॥ नीरसायां शुष्काया, क्रूरायाञ्च । बालिकाया युवतौ,-बाल. मूर्को मुग्धो वा, विकल्पयेत् निश्चिनुयात् , न पण्डित इत्यर्थ । गृहभङ्गम्-पत्नीवियोग.। चित्तविश्लेष =मनोभेद. । तादृशं द्विगुणं-मत्तो द्विगुणं । जार =उपपतिः ॥५९॥ हालिकदम्पती कृषीवलमिथुनं । ('किसान स्त्रीपुरुष' )। वृद्धभावात्= वार्धक्यात् । अन्यचित्ता=परपुरुषरता। स्थैर्य-स्थितिम् । परवित्तापहारकेण= परधनापहा । धूर्तेन वञ्चकेन ('ठग')। लक्षिता=ज्ञाता। विजने=एकान्ते । १. 'जले तिष्ठसि नग्निके'इति लिखितपुस्तकपाठः।