पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८

  • पञ्चतन्त्रम्

[ ३ काका- हेलयैव प्रसुप्तौ द्वाक्प्येतो व्यापादयामि ?। परं-पश्यामि ताव- दस्याश्चेष्टितं, शृणोमि चानेन सहालापान् ।' अत्रान्तरे सा गृह- द्वारं निभृतं पिधाय शयनतलमारूढा । अथ तस्यास्तत्रारोहन्त्या रथकारशरीरेण पादो विलग्नः । ततः सा व्यचिन्तयत्-'नूनमेतेन दुरात्मना रथकारण मत्परीक्षणार्थ भाव्यम् ? । ततः स्त्रीचरित्र- विज्ञानं किमपि करोमि।' एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुको बभूव। अथ तया कृताञ्जलिपुटयाऽभिहितम् 'भो महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं, यतोऽहं पतिव्रता महासती च, न चेच्छापं दत्वा त्वां भस्मसात्करिष्यामि । स आह-'यद्यवं तर्हि त्वया किमहमाहूतः' ? | साऽब्रवीत्-'भोः ! शृणुष्वकाग्रमना:- अहमद्य प्रत्यूषे देवतादर्शनार्थ चण्डिकायतनं गता। तत्राकस्मात्खे वाणी सञ्जाता-'पुत्रि ! किं करोमि ? भक्तासि मे त्वम्-परं षण्मासाभ्यन्तरे विधिनियोगाद्विधवा भविष्यसि । ततो मयाs भिहितं-'भगवति ! यथा त्वमापदं वेरिस, तथा तत्प्रतीकारमपि जानासि । तदस्ति कश्चिदुपायो येन से पतिः शतसंवत्सरजीवी भवति' ? । ततस्तयाऽभिहितम्-वत्से ! सन्नपि नास्ति, यत. स्तवायत्तः स प्रतीकारः।' तछुत्वा मयाभिहितम्-'देवि ! यदि तन्मम प्राणैर्भवति तदादेशय येन करोमि । अथ देव्याऽभिहितम्-'यद्यद्य परपुरुषेण सहकस्मिञ्छयने समारुह्याऽऽलिङ्गनं करोषि, तत्तव भर्तृसत्तोऽपमृत्युस्तस्य सञ्ज- जार. । शयने= मञ्चके । एन-जारम् । हेलयैव-सहमैव । परं-परन्तु । अनेन= जारेण । निभृतं = शनैः । तत्र-शयनतले । एतेन तत्पादलग्नेन । स्त्रीचरित्र- विज्ञानं-स्त्रीचरित्रकौशलं । महानुभाव-महाशय । भस्मसात् भस्म । एवं यदि त्वं महासती तर्हि । एकाग्रमना =सावधान. । चण्डिकायतनं गौरीमन्दिरम् । खे- आकाशे । प्रतीकारं निवर्तनोपायम्। आयत्तअधीनः। प्राण प्राणव्ययेनापि । १ 'अयोनिशिश्नवर्षण, नुरत'मिति पाठान्तरं, तदेव चात्रोपयुच्यते, भने-'यदेव ब्रह्मवत'मित्यादिना तथैव धननात् ।