पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ ८ पञ्चतन्त्रम् * [३ काको- लापान्ममयानाकर्ण्य तथैवानुष्ठितवती । विधायाऽव्यङ्गं नीरोगं भर्तारं निधिञ्च परमासाद्य स्वदेशाभिमुखं प्रायात् । पितृमात- स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमि-परस्परस्य मर्माणि-' इति । तञ्च श्रुत्वा स्वयमरिमर्दनोऽप्येवं समर्थितवान् । तथा चानुष्ठितं दृष्ट्वाऽन्तीनं विहस्य रक्ताक्षः पुनरब्रवीत्-'कष्टम् ! विनाशितोऽयं भवद्भिरन्यायेन स्वामी। उक्तञ्च- अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना। त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ १९१ ।। तथा च-प्रत्यक्षेऽपि कृते पापे मूर्खः सान्ना प्रशाम्यति । रथकारःस्वकां भार्या सजारां शिरसाऽवहत्' ।। १९२ ॥ मन्त्रिणः प्राहुः-'कथमेतत् ?'। रक्ताक्षः कथयति- ११. रथकारवधूजारकथा अस्ति.कस्मिश्चिदधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी। सा च पुंश्चली जनापवादसंयुक्ता । सोऽपि तस्याः परीक्षणार्थ व्यचिन्तयत्-'अथ मयाऽस्याः परीक्षणं कर्तव्यम् । उक्तञ्च यतः- यदि स्यात्पावकः शीतः प्रोष्णो वा शशलाञ्छनः । कॉजी की राई पीनेसे) । विटपान्तरिता शाखाव्यवहिता । अनुष्ठितवती कृतवती। विधाय-कृत्वा । अव्यङ्गम् अविकलम् । निधि-शेवधिम् । परं- श्रेष्ठम् । विहितोपभोग-कृतकर्मोपभोगच । एवं शत्रुमन्त्रिणो वधाऽभावम् । अनुष्ठितं कृतम् । अन्तर्लीनं मनस्येव । अन्यायेन-दुष्टमन्त्रेण । विमाऽनना अपमानः । साना-मधुरवचनैः । रथकारः वर्धकिः । स्वकाम् आत्मनः । सजारां-जारसहिताम् ॥ १९२॥ सा कामदमनी । पुंश्चली व्यभिचारिणी । जनापवादसंयुक्ता लोकनिन्दिता। १श्य कथानोलत्वात्काशिकमध्यमपरोक्षाव्याशतो बहिर्भूता ।