पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ]

  • अभिनवराजलक्ष्मीविराजितम् *

२३३ वित्राङ्गोऽस्य मार्गे गत्वा किञ्चित्पल्वलमासाद्य, तस्य तीरे निश्चेतनो भूत्वा पततु, अहमप्यस्य शिरसि समारुह्य मन्दैश्चञ्चु- प्रहारैः शिर उल्लेखयिष्यामि, येनासौ दुष्टलुब्धकोऽमुं मृतं मत्वा चञ्चप्रहरणप्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थ परिधा- विष्यति। अत्रान्तरे त्वया दर्भमयानि पाशानि खण्डनीयानि, येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति ।' चित्राङ्गाह-भोः ! भद्रोऽयं त्वया दृष्टो मन्त्रः, नूनं मन्थ- रकोऽयं मुक्तो मन्तव्यः' इति । उक्तञ्च- सिद्धि वा यदि वाऽसिद्धि चित्तोत्साहो निवेदयेत् । प्रथमं सर्वजन्तूनां तत्प्राज्ञो वेत्ति नेतरः ॥ १९७ ।। -तदेवं क्रियताम्'-इति । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्नपल्वलतीरस्थं चित्राङ्गं वायससनाथमपश्यत् । तं दृष्ट्वा हर्षितमना व्यचिन्तयत्-'नूनं पाशबन्धनवेदनया चराकोऽयं मृगः सावशेषजीवितः पाशं त्रोटयित्वा कथमप्यत- द्वनान्तरं यावत्प्रविष्टस्तावन्मृतः । ततश्योऽयं मे कच्छपः सुय- न्त्रितत्वात् , तदनमपि तावद्गृह्णामि । इत्यवर्धाय कच्छपं भूतले प्रक्षिप्य मृगमुपाद्रवत् । एतस्मिन्नन्तरे हिरण्यकेन वज्रोपमदंष्ट्रा- प्रहरणेन तदर्भवेष्टनं खण्डशः कृतम् । मन्थरकोऽपि तृणमध्यान्नि- चक्रम्य समीपवर्तिनं पल्वलं प्रविष्टः । चित्राङ्गोऽप्यप्राप्तस्यापि तस्य तत उत्थाय वायसेन सह पलायितः । एतस्मिन्नन्तरे विलक्षो विषादपरो लुब्धको निवृत्तो ॥ १९६ ॥ अस्य-व्याधस्य । पल्वलम् अल्पं सरः। अह-काकः । अस्य% मृगस्य । उल्लेखयिष्यामि-विदारयामि । अमुं-मृगं । पल्वल-क्षुद्रं सरः । भद्र = शोभन: । दृष्ट =विचारित । मुक्तो मन्तव्यः लुब्धकान्मुक्त एव ज्ञातव्य । ('छूट गया ही समझो'.)। प्रथम कार्यारम्भात्प्रागेव। प्राज्ञ. विद्वान्। वायससनाथ-काक- सहितम् । वराकः-दीन । ('विचारा') । नूनम् अवश्यम् । सावशेषजीवित किञ्चिदवशिष्टप्राणः, मरणासन्न । सुयन्त्रितत्वात् दृढं बद्धत्वात् । एन-मृगम् । उपाद्रवत्-अधावत् । वज्रोपमदंष्ट्राप्रहरणेन वज्रतुल्यदन्तशस्त्रशालिना। करणे चा तृतीया । तत =पल्वलतीरात् । विलक्ष लज्जित ।