पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम्

[ कथा- स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच-'भो भगवन् ! मदनुग्रहार्थमेतानर्थशास्त्रं प्रति द्राग्यथाऽनन्यसदृशान्विदधासि तथा कुरु । तदाऽहं त्वां शासनशतेन योजयिष्यामि ।' अथ विष्णुशर्मा तं राजानमूचे-'देव ! श्रूयतां मे तथ्यवचनं, नाऽहं विद्याविक्रयं शासनशतेनापि करोमि। पुनरेतांस्तव पुत्रा- न्मासषट्केन यदि नीतिशास्त्रज्ञान्न करोमि, ततः स्वनामत्यागं करोमि। किं बहुना ! श्रूयतां ममैष सिंहनादः-नाहमर्थलिप्सुब्रवीमि, ममाशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियार्थस्य न किञ्चिदर्थेन प्रयोज- नम्। त्वत्प्रार्थनासिद्ध्यर्थसरस्वतीविनोदं करिष्यामि । तल्लिख्य. तामद्यतनो दिवसः, 'यद्यहं षण्मासाभ्यन्तरे तव पुत्रान्नयशास्त्र प्रत्यनन्यसदृशान्न करिष्यामि, ततो नाऽर्हति देवो देवमार्ग सन्दर्शयितुम् । प्रबुद्धान=सुबोधान् । तत्-मन्त्रिवाक्यम् । आकर्ण्य श्रुत्वा । अर्थशास्त्रं प्रति-नीति- शास्त्रे, राजशास्त्रे च । अनन्यसदृशान् अनुपमान् । शासनशतेन ग्रामशताधिका- रेण । ग्रामशतं तुभ्यं दास्यामीति यावत् । (सौ गाव आपको इनाम दूंगा।) देव राजन् । तथ्यवचनं सत्यं वाक्यम् । पुन =किन्तु । मासषटकेन षडियासरेव । स्वनामत्यागं-यशस पाण्डित्यगर्वस्य,स्वनाम्नश्च त्यागम् । एष वक्ष्यमाण., क्रियमाणश्च । सिहगर्जितमिव वादिगजेन्द्रवारणं सुस्पष्टं गभीरं वाक्यम् । श्रूयता: भवताऽऽकर्ण्यताम् । स्ववाक्ये विश्वासार्थ स्वस्मिन्नाप्तत्वं सूचयति-नाहमिति । कुत एतदत आह-ममेति । व्यावृत्ता सर्वे इन्द्रियाणामा यस्मात् तस्य व्या- वृत्तसर्वेन्द्रियार्थस्य विषयपराङ्मुखस्य। अर्थेन-धानादिना । त्वत्प्रार्थनासिद्ध्यर्थ= पालकस्य सतो भवतोऽभीष्टसिद्ध्यर्थमेव । सरस्वतीविनोद-विद्याशक्तिप्रदर्शन- कौतुकमानं । सिंहनादोपमं वाक्यमिदानीमाह-यदीति । नयशास्त्रं प्रति-नीति- १ 'अर्हति मे देवो देवमार्ग' मित्येव लिखितपुस्तके पाठः । तत्र-देव. भवान् राजा, मे मह्य, देवमार्ग यमराजराजधानीमार्ग, सन्दर्शयितुमर्हति प्रतिज्ञामने मृत्युदण्ड निर्वासनदण्ड वा दातुमर्हतीत्यर्थः । शोमनश्वार्य पाठ इति-गौडाः ।