पृष्ठम्:न्यायलीलावती.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्न । तदनभिधानात् । ततो भावाभावयोरपि तत्स्वीकारो दुर्वार एव । दण्डी पुरुष इति प्रतीतेश्च । शब्दमात्रामिदमिति चेन्न,इहायमित्यादावपि [१] तथात्वमसङ्गात् ।

न्यायलीलावतीकण्ठाभरणम्

तदनभिधानात्तविरह एवात्रेत्याह--नेति । बाधाभावाद्वैशिष्ट्यं प्रामाणिकमेवेत्युपसंहरति-तत इति । न केवलमभावे वैशिष्ट्यप्रत्ययानुरोधात् वैशिष्टयं स्वीकुर्मः, किन्तु भावविशिष्टप्रत्ययोऽपि तत्र प्रमाणम् । न च संयोगेनान्यथासिद्धिः तमादायापि समूहालम्वनस्य दुष्टत्वादित्याह - दण्डीति । ननु दण्डी पुरुषो दण्डविशिष्ट: पुरुष इत्यर्थाननुरोधी शब्दो न वैशिष्ट्ये प्रमाणमित्याह - शब्देति । तर्हि इहायमित्यपि शब्दमात्रं न समवाये प्रमाणमित्याह - इहायमिति । कुण्डे दधी-

न्यायलीलावतीप्रकाशः

त्यर्थः । तत इति । प्रमाणबलाद्भावयोः समवाय इव भावाभावयोरपि सम्वन्धान्तरं वैशिष्ट्याख्यमभ्युपेयं समवायाभावादित्यर्थः । न च भावाभावयोः सम्बन्ध एव नास्ति अभावस्यापक्षधर्मत्वेन हेतुत्वानापत्तेः भूतले घटससर्गो नास्तीति देशविशेषनियताभावव्यवहारानुपपत्तेश्च । न च प्रतियोगिदेशनियमात्तन्नियमः, तदन्यदेशताव्यवहाराभावापत्तेरिति भावः । यत्रापि संयोगस्तत्रापि वैशिष्ट्घमभ्युपेयं विशेषणविशेष्यवत्तयोर्वैशिष्ट्न्यस्यानुभवादित्याह- दण्डीति । न च दण्डपुरूपसंयोगा एव तद्विषयः दण्डपुरुषसंयोगा इतिप्रतीत्या सह विशेषाभावापत्तेरिति भावः । शब्दमात्रमिति । मात्रपदेनार्थनैरपेक्ष्यमुक्तम् । इहायमिति । इह गोत्वमित्य तोपीहेतिधीनिमित्तं समवायो न सि-

न्यायलीलावतीप्रकाश विवृतिः

क्यत्वादित्यर्थः । अभावस्येति । पक्षसम्बन्ध एव हि पक्षधर्म्मतेत्यर्थः । न तु तद्वृत्तिभावाप्रतियोगिकत्वमेवाभावस्य पक्षधर्मतेत्यरुचेराह-भूतल इति । तदन्येति । प्रतियोगिदेशान्यदेशताव्यवहारस्या [२] त्यन्ताभावे एवमप्यसमर्थनादित्यर्थः । नि च प्रतियोग्यारोप एव नियामकः अभावसम्बन्धमन्तरेण प्रतियोग्यारोपस्यैवाभावादिति भावः । प्रतिज्ञामात्रान्न साध्यसिद्धि-


  1. 'त्यादेरपि' ।
  2. प्रतियोगिदेशता व्यवहारस्येति द्वितीयपुस्तके पाठः ।