कत्वात् । अजस्य तु संयोगस्पायुतसिद्ध सम्बन्धिनिष्ठत्वेन
समवायाद्भेदानुपपत्तेः । अवयवावयविभावाभाव एव युतसिद्धिरिति चेन्न । गुणादेरसमवायित्वापत्तेः । तेषां स्वातन्त्रयेणाश्रयान्तरासमवायित्वमयुतसिद्धिरिति चेन्न । तुल्यत्वात् ॥
इति संयोगः ॥
ननु संयोगाभाव एव विभाग [१] व्यवहारोऽस्तु । मैवम् ।
न्यायलीलावतीकण्ठाभरणम्
प्रत्युत नित्या प्राप्तिः समवाय एवायं स्यादित्याह--अजस्य त्विति। नम्वयुत सिद्धयोः सम्बन्धः संयोग एच स्यात् तयोरवयवावयविभावाभावादित्यत आह-गुणादेरिति । ननु पृथगाश्रयाश्रितत्वं युतसिद्धिर्घटपटयोरिव, गुणगुणिनोरवययघावयविनोश्च न पृथगाश्रयीभूतत्वमित्ययुतसिद्धिरेवेत्याशङ्कते तेषामिति । गुणगुणिनोरपि पृथगाश्रयाश्रितत्वमस्त्येव यतो गुणस्य गुणी गुणिनस्तु स्वावयवा इत्यत आह -- स्वातन्त्र्येणेति । परस्परपरीहारेणेत्यर्थः । नहि गुणिनं विहाय गुणस्याक्ष्रय इति भावः । तुत्यस्वादिति । इयमयुतसिद्धिर्विभुनोरण्याश्रयाभावादेवेत्यर्थः ।
पल्लवस्तु प्रक्रियायामिति यदुक्तं तत्राह नन्विति । संयोगध्वंसे समानाधिकरणसंयोगासमानकालीने विभागव्यवहारोपपत्तौ कि
न्यायलीलावतीप्रकाशः
त्वधिकमित्यत आह अजस्य त्विति । आश्रयान्तरासमवायित्वं द्वित्वादौ नास्तीत्यत उक्तं स्वातन्त्र्येणेति । तत्परित्यागेनाश्रयान्तरप्राप्तिः स्वातन्त्र्यम् । तुल्यत्वादिति । आकाशात्मनोरण्याअयाभावादेवाधयान्तरासमवायादयुतसिद्धिप्रसङ्ग इत्यर्थः ॥
संयोगाभाव इति । संयोगध्वंस इत्यर्थः । स च संयोगासमानकालीनः संयोगत्वावच्छिन्नसामान्यभावो वा विवक्षितः, तेन संयुज्य
न्यायलिलावतीप्रकाशविव्वृतिः
विनष्टे व्यभिचारेण द्रव्यत्वस्याकाशविभागासाधकत्वात् । न च नित्यद्रव्यत्वेन तत्सिद्धिरप्रयोजकत्वादिति भावः ।
स च संयोगेति । तदुभयप्रतियोगिक संयोगेत्यर्थः । एवमग्रेऽपि । सा-
- ↑ वे विभागेति प्रा० पु० पाठः ।