वान्निमित्ततावदिति सर्वे समाकुलमिति चेत् ।
मैवम् । सचासम्बन्धबुद्धि [१]
स्तावन्नाभाव इत्यध्यक्षसिद्धम् ।
न चेयमनारोपिता, समवाये तदभावात् तथा चैवंविधारो-
न्यायलीलावतीकण्ठाभरणम्
अस्तित्वमुपपादयति सत्तेति । नचेयमिति । अनारोपितत्वेन ज विशेषणीया किन्तु बुद्धिमात्रमभिमतमित्यर्थः । अनारोपितत्वेऽनिष्टमाह समवाय इति । सामान्यविशेषयोः सत्तासामानाघिकरण्यादपि तद्बुद्धिसम्भवात् समवायमात्रग्रहणम् ; उपल
न्यायलीलावतीप्रकाशः
बेऽपि असमवायिकरणत्वे स्वभाव एव नियामक इत्यर्थः ।
सत्तासम्बन्धेति । ननु सत्तासम्बन्धबुद्धेः परकीयायाः स्वबुद्धेरप्यतीतानागताया अभावे अभावग्रहे योग्यानुपलम्भो नास्ति, न च वर्तमाना स्वकीया या तादृशी बुद्धिस्तदभावो विवक्षितः, भावेऽपि क्वचित्तदद्भावात सर्वस्य भावस्य सर्वैरज्ञानात् । मैवम्, तत्रैव सद्बुद्धिर्यद्विषयत्वेन साऽनुब्यवसीयते अभावविषयत्वेन च सा नानुव्यवसयित इत्यर्थात् । इयं -- सत्तासम्बन्धबुद्धिः । समवाय इत्युपलक्षणम्, सामान्यविशेषयोरपीति द्रष्टव्यम् । तदभावात्---अनारोपितसन्तासम्बन्धबुध्घभा-
न्यायलीलावतीप्रकाशविवृतिः
च स्वभाव एव नियामक इत्यर्थः ।
अभावविषयत्वेन चेति । यद्यपि परकया बुद्धिरभावविषयत्वेन परेणानुव्यवसीयत इत्यपि नाध्यक्षसिद्धं, स्वीया बुद्धिश्च किञ्चिद्भा वविषयत्वेनापि नानुव्यवसीयत इत्यव्याप्तिः, तथापि स न प्रमेय इत्यादिसामान्य प्रकारकबुद्धियथा सकलभावविषयत्वेनानुव्यवसीयते न तथा भावादिसमतया तस्य बुद्धिस्वरूपत्वादित्याशयः । एवश्च यद्यपि सत्तासम्बन्धबुद्धिविषयत्वमिति यथाश्रुतमूलमेव सभ्यक्, तथापि तत्रैव प्रमाणत्वेना नुव्यवसायपर्यन्तमुक्तम् । न चेयमनारोपि तेति मूलम् । अनारोपितरूपा प्रकृते न विवक्षितत्यर्थः । अनारोपिते-
- ↑ बुद्धिविषयत्वं ताथदिति विवृतिकारानुमतः पाठोऽत्र ब्रष्टव्यः ।