सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८४
न्यायळीलावती


च यत्समानं तयोरेव समानता किं तेन अन्येन वा ? नाथः स्वा न्मन्यवृत्तेः । नेतरोऽनवस्थिनेः । एतेनैब [] षण्णामिति व्याघातः । घर्मा धर्महेतुत्वञ्च जानेरप्यन्वयव्यतिरेकात् ।न च व्य-


न्यायलीलावतीकण्ठाभरणम्

त्वं चेति साधर्म्यमाक्षिपति धम्मेति गान्दद्यादिन्यत्र व्यक्तेजीतेक्ष्च धर्म्मकर्त्तृत्वं सभमेवेन्यनिव्याप्तिरिन्यर्ध । ननु व्यक्तेरवच्छेदकत्वं

न्यायलीलावतीप्रकाशः

धर्मा धर्मी तयोधर्मिणार्यदि । ज्ञेयत्वं तदा केवलान्वयित्वव्याघात इति तयोरपि साधम्यमेषितव्यं, तथाच किन्तेनैव ज्ञेयत्वेन तदन्येन वेत्यर्थः । स्वान्मनीति | सघर्मणो भावः साधयमिति विशिष्टे स्ववृत्तावंशन आत्माश्रय इत्यर्थः । अनवस्थितरिते । तत्रापि धर्मान्तरेण सधर्मत्वादित्यर्थः । एतच्च योग्यतया केवलान्वयि साधर्म्यपरम्, अ न्यषां स्वात्मन्यवृत्तेः । एतेनैवति । साधर्म्य पदार्थ खण्डनेनैवेत्यर्थः । ज्ञेयत्वादेर्निःप्रनियोगिकत्वनाभावात्मकत्वाद्भावत्वनियमे तत्रैव वृत्तेश्व षड्बहिर्भावसिद्धेरिति भावः ।

 द्रव्यादीनां त्राणामेवाद्दष्टजनकम्यमित्याक्षिपति धर्माधर्म

न्यायलीलावतीप्रकाशविवृतिः

तयोर्मधर्मिणीरिति । धर्मो ज्ञेयन्त्रम, धर्मी ज्ञेयत्वविशिष्टः । साधर्म्य ज्ञेयत्वरूपं तदन्येन वा ज्ञेयत्वेनेत्यर्थः । अंशत इति । ज्ञेयत्वविशिष्टज्ञेयत्ववृत्तेरिति भावः । ज्ञेयत्वे नया शुद्धात्माश्रयोऽपि द्रष्टव्यः । तत्रापि धर्मान्तरेणेति । यद्यपि ज्ञेयत्वान्तरं तद्विशिष्टेऽपि तस्य वृत्तावेवात्माश्रय इति ज्ञेयत्वान्तरं केवलान्वयि वाच्यमेत्र तत्रापीत्यर्थः । ननु साधर्म्यमात्रे नेदं दूषणं स्वविशिष्ट स्वस्मिन्वा स्ववृत्त्यभावेऽपि क्षत्यभावादत आह एतचेति । इयं च व्याख्या केवलान्वयिसाधम्र्यस्य सन्निहितत्वात्तथाक्षेपपरत्वमेव मूलस्येत्यभिप्रायेण प्रकाशकृता कृता । वस्तुतः साधर्म्य समानधर्मणो भाव इति यत्किञ्चिदेव साधर्म्य तद्धर्मविशिष्टे धर्मान्तरविशिष्टे वा ? आधे आत्माश्रयः,द्वितीयेऽधिकरणतावच्छेदकीभूत धर्मस्यापि साधर्म्यतया तदनुरोधनापि धर्मान्तरस्वीकारेऽनवस्थितिरिति मूलार्थ इति प्रतिभाति । ज्ञेयत्वादेरिति । भावरूपं यदेव साधर्म्य


  1. एवकारो नास्ति प्रा० पुस्तके।