सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१८
न्यायलीलावती


 न्यायनये तु प्रत्यक्ष एवं समवायः जातिव्यक्तिभ्यां सह स्वरूपेणानुभूयते । अननुभवे गौग्यमिति गोत्वपुरोवर्तिन्त्रयोः सामानाधिकरण्यवोधो न स्यात् । द्वयोः समानेनाधिकरणेन सम्बन्ध: सामानाधिकरण्यम् अयमयं गोत्वं च गोत्वमिति व्यधिकरणोऽनुभवः स्यात् । गोत्वसमवायीति सामानाधिकरण्यमत्ययवद्विनैव सम्बन्धावभासं गोत्वसम्बन्धीत प्रत्ययो


न्यायलीलावतीकण्टाभरणम्

 समानतन्त्रसिद्धान्तं दर्शयति न्यायेति । जात्यादिविशिष्टधीः सम्बन्धविषया विशिष्टवीत्वात दण्डीतिधीवत् । अभावादिविशिष्टवुद्धरपि स्वरूपसम्बन्धविषयत्वेन न व्यभिचारः । न च तत्रापि स एवास्त्विति वाच्यम् । लाघवादकस्यैव सिद्धे: स्वरूपाणान्त्वनन्तत्वादिति भावः । स्वरूपेणेति । न विशेषणत्वेन नवा विशेष्यत्वेनेत्यर्थः । समवायप्रत्यक्षे प्रमाणमाइ अननुभव इति । गोत्वसम्बन्धीति । अयं गौरिति प्रत्ययोऽपी-

न्यायलीलावतीप्रकाशः

वाय इत्याहुः ।

 तन्न । श्यामं रूपं नगृं रक्तमुत्पन्नमित्यबाधितानुभवात् समवायस्योत्पत्तिविशेषानुल्लेस्वाच, तन्मतेऽपि तस्यातीन्द्रियत्वात्, अन्यथाऽवयविज्ञानगन्धादयो नित्याः समवायस्योत्पत्तिविनाशाविति स्यात् ।

 न्यायनये त्विति । गुणक्रियाजातिविशिष्टबुद्धयो विशेषणविशेष्यसम्बन्धविषयाः विशिष्टवुद्धित्वात् दण्डीतिविशिष्टबुद्धिवत् । न च व्यभिचारः, अभावादिविाशावुद्धेरपि स्वरूप सम्बन्धविषयत्वात् । न चात्रापि तेनैवार्थान्तरं, यतो गुणक्रियाजातिबुद्धीनां पक्षधर्मताबलात्सम्बन्धः सिद्ध्यल्लाघवादेक एव सिद्ध्यति, स एव समवायः, नतु स्वरूपसम्बन्धः तत्स्वरूपाणामननुगतत्वादित्युक्तमिति भावः ।

न्यायलीलावती प्रकाशविवृतिः

दतिया ज्ञात एवेति । तन्मतेपीति । तथाच साक्षात्कारिरूपायामुत्पादविनाशप्रतीतौ समवायविषयकत्व कल्पनमयुक्तमिति भावः ।

 केन रूपेण भासत इत्याद्यनन्तरं क्वचिदनुभव इति मूलप्रतीक-