सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०९
म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्धनियतः भावमात्रविषयावाधितविशिष्टव्यवहारत्वात् सघटं


न्यायलीलावतकण्ठाभरणम्

व्यवहार इत्यर्थः । सम्बन्धनियत इति । अत्र संयोगसिद्धौ बाधस्तेन समवायसिद्धिरेव पर्यवसन्ना । सम्वन्धत्वं च द्रव्यगुणकर्म्मसामान्यविशेषान्यत्वे सति संयोगान्यगुणान्यत्वमेव संयोगसमवायलाधारणम् । भावमात्रेति । इतरनिरूपणानिरूप्यविशेषण कविशिट्वुद्धित्वात्

न्यायलीलावतीप्रकाशः

न्नैकं, तथापि पक्षस्थाननुगमेऽपि न दोष इत्यन्यत्र विम्तरः । सम्बन्धनियत इति । यद्यपि सम्बन्धत्वं न संयोगसमवायसाधारण मेकमिति संयोगसाधने बाधः, समवायलाधने चाप्रसिद्धिः, तथापि द्रव्यगुणकर्मसामान्य विशेषान्यत्वे सति संयोगान्यगुणान्यत्वमेव सम्बन्धत्वम् । अबाधितेति । निर्विषयकभावविशेषणकविशिष्टबुद्धित्वादितरनिरूपणा-

न्यायलीलावती प्रकाशविकृतिः

मिया पूरयति पक्षस्येति । तथाच घटत्वविशिष्टघटज्ञानत्वादिनैव पक्षतेति भावः । न चान्यत्र सन्दिग्धानैकान्तिकता साध्याभावसन्देह स्यादोषत्वादित्यभिप्रेत्याह अन्यत्र विस्तर इति । यद्यपीति । विशिष्टप्रत्ययजनकत्वं सम्बन्धत्वं यद्यप्यनुगतमेव तथापि तादृशसाध्ये स्वरूपसम्बन्धेनैवार्थान्तरमिति तद्यावृत्तमेव साध्यं तादृशं चानुगतं नास्तीति भावः । तथापीति । संयोगसङ्ग्रहाय संयोगान्येति गुणविशेषणम् । न चाभावात्मक स्वरूपसम्बन्धेऽतिव्याप्तिरन्योन्याभाववस्वस्य निरुक्तस्या- भावोऽभावाभावरखेन विशेषणं वा । यद्यपि प्रकृते तत्साधारण्येपि न दोषः, जात्यादिविशिष्टबुद्धौ तेनार्थान्तरशङ्काया अभावात्, तथापि हेतौ भावपदोपादानात्तन्त्रात्राभिप्रेतम् । मूलोकहे तोर्जातः कृत इत्यादौ व्य भिचारमाशङ्ख्याह निर्विषयेति । अबाधितपदविमुक्तं हेतोरेवार्थकथनमित्यबाधितपदं मूलस्थमेव योज्यमतो न भ्रमे व्यभिचारः । भावविशेषणत्वेत्यस्य च भावमात्रविषयकेत्यर्थोऽतो नाभावादिविशेष्यकप्रतीतौ व्यभिचारः । इतरेति । अत्रापि तद्विशेषणकत्वं तन्मात्रविषयकत्वम्, इदं च ज्ञानादिविशिष्टबुद्धिव्यावृत्त्यर्थमुक्तम् । न चात्र समवायाविषयतयाऽसिद्धिः, तद्विषयताभ्युपगमात् । न चोभयत्र हेतौ बने सिंहनाद इति प्रतीतौ व्यभिचार, बुद्धिपदस्य लौकिक साक्षात्कारपरत्वाद,