ननु परापरव्यतिरिक्तमपि सामान्यमस्तु रजतत्वत् । न । परस्परपरिहारवतोः सामान्ययोः समावेशे तदतज्जातीयविरोधोच्छेदापत्तेः । कलशजातीयं च रजत सामग्यपेक्षकार-
न्यायलीलावतीकण्ठाभरणम्
बुद्ध्युपपत्तेः ।
परापरव्यतिरिक्त मपीति । परस्परात्यन्ताभाव समानाधिकरणयोरपि जात्यो सामानाधिकरण्यमस्त्वित्यर्थः । तदतज्जातीयेति । गोत्वा गोत्वयोः समावेशे गवाश्वाकार एक एव पिण्डः स्यान्न च तथास्ति, तथाच न समावेश इत्यर्थः । यदि रजतत्वकलशत्वयोः समावेशस्तदा गोत्वाश्वत्वयोरपि कदाचित् स्यात् । यत्तु करस्थितपिण्डानुपलम्मान तथा तदा इदानीं तथा दर्शनाभावेऽपि कदाचित् प्रक्ष्यत इत्यत आह कळशजातांयं चेति। तथापि न समावेशः, किन्तु रजतत्वादिव्याप्यं भिन्नमेव कलशत्वं संस्थानविशेषवृत्ति च न कलशत्वं महान्नीलो घटक्ष्चलतीति प्रतीत्या द्रव्यत्वसिद्धेः । किंच संस्थानवृत्तित्वेऽपि अन्यतर-
न्यायलीलावतीप्रकाशः
परापरव्यतिरिक्तमपीति । परापरभावं विनापि सामान्य मास्त्वित्यर्थः । रजतेति । ननु संस्थानवृत्त्येव घटत्वं न द्रव्यवृत्तीति न तयोः समावेशः । संस्थानं ह्यवयववृत्तिः संयोग एव, युक्तं चैतत् कथमन्यथा तस्मिन्नव रजते तत्संस्थानसत्वासत्त्वाभ्यां घटतदभावव्यवहारः । मैवम् । तत्राप्यन्यतरकर्मजत्वादिना सङ्करप्रसङ्गात् कथमन्यथा तस्मिन्गुणगतजातौ सङ्करो न दोष इति तु निर्वोजमेव वैजात्यमेवेति । नन्वेवं तन्तुपटयोरिव घटरजतयोरभेदानुभवः कदापि न स्यात् । अत्राहुः । रजतत्वादिव्याप्यं नानैव घटत्वम् । न चैवं रजतादिघटे धनुगतव्यवहारो न स्यात् घटत्वस्य रजतादिप्रत्येकविश्रान्ततया व्यक्तिस्थानीयत्वादिति वाच्यम् । तादृसंस्थानवत्त्वेनोपाधिना तथा व्यवहारात् ।
न्यायलीलावती प्रकाशविवृतिः
ह परांपरेति । परस्परपरायरेत्यर्थः । ननु करम्बिता कारवस्तूपलम्भापत्तिस्ता दृशजाति द्वय बाधिका, सा च गुणगतजातो नास्त्येव, गुणस्य निराकारत्वादत आह गुणगतजाताविति । एतज्जातीयताविरोधिभङ्गप्रस-